________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
252
तैत्तिरीयसंहिता
(का. १. प्र. ३.
देवस्य॑ त्वा सवितुः प्रसवैऽश्विनौर्बाहुभ्यां पूष्णो हस्ताभ्यामा देभ्रिरस नारिरस परिलिखित 'देवस्य । त्वा । सवितुः। प्रसव इति प्र-सवे । अश्विनौः । बाहुभ्यामिति वाहु-भ्याम् । पूष्णः । हस्ताभ्याम् । एति । ददे। अभ्रिः। असि। नारिः।
HTHE
अथ तृतीयः प्रपाठकः'अतः परमध्वरकाण्डं सोमायम् । तत्रौदुम्बर्यवटपरिलेखनार्थमभ्रिमादत्ते-देवस्य त्वेति ॥ व्याख्यातं चैतत् * । हे अत्रे त्वामादद इति सावित्रस्यैवायं शेषः ॥
श्तामभिमन्त्रयते--अनिरसीति ॥ अम्रिः कठिनमपि प्रदेशं भित्त्वानुप्रवेष्टुं समर्थासि, एवंनाम तीक्ष्णासीत्यर्थः । अभ्र गतौ, 'इन्सर्वधातुभ्यः' इतीन्प्रत्ययः । यद्वा-~-अपो बिभर्तीत्यभिः, यागसाधनद्वारेण वृष्टिहेतुत्वात् , तक्ष्णीकरणाय कर्मकारेण पायितोदकत्वाद्वा । अप्छन्द उपपदे बिभर्तेः 'अचः' इतीप्रत्ययः, बहुलवचनाद्गुणो न क्रियते, स्वरानवग्रहौ चिन्त्यौ । व्यत्ययो वा । कथं पुनरियं तीक्ष्णेति ज्ञायते ? इत्याह-नारिरसि । नू नये, 'पुंसि संज्ञायां घः' । नरः नेता निपुणः कर्मकारः, तस्यापत्यमसि, तेनोत्पादितत्वात् । यहा–'नयतेष्टिलोपश्च' इति ऋप्रत्यये ना, तस्यापत्यमिति बाह्वादेराकृतिगणत्वात् इत्ययः ।
*सं-१-१.४.
For Private And Personal Use Only