________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.]
भभास्करभाष्योपेता
19 'स्साविश्वकर्मा संपृच्यध्वमृतावरीरूमिणीमधुम
'द्वितीयामभिमन्त्रयते--सा विश्वव्यचा इति ॥ विश्वं व्यचति व्याप्नोतीति विश्वव्यचाः । अञ्चुगतौ, अञ्चु इत्येतस्मादसुन्, शिष्टं विश्वधायाशब्दवत् । अन्तरिक्षं विश्वव्यचाः ॥
तृतीयामनुमन्त्रयते-सा विश्वकर्मेति ॥ विश्वानि कर्माणि कर्मफलानि यस्यां सा विश्वकर्मा द्युलोकः । पूर्ववत्स्वरः । 'इमानेवैताभिः '* इत्यादि ब्राह्मणम् ॥
गोदोहनसंक्षाळनीया अपः पयस्यानयति-संप्टच्यध्वमिति गायत्र्या ॥ हे ऋतावरीः ऋतेन सत्येन यज्ञेन वा तद्वत्यः, ऋतसम्पादिका आपः यूयं पयसा सम्पच्यध्वं सम्प्टक्ता भवत । कर्मणि लंकारः । 'छन्दसीवनिपौ' इति वनिप् । 'वनो र च' इति ङीओफौ । 'अन्येषामपि दृश्यते ' इति दीर्घः । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वं । आष्टमिकमामन्त्रितानुदात्तत्वम् । उर्मिमत्वादिगुणयुक्तास्सत्यस्सम्टच्यध्वम् । एतेषामामन्त्रितत्वाभावाद्यथायथं स्वरा भवन्ति । पयस्सम्पर्केण वाह्येते गुणाः अपामुपजायन्ते । महद्भिरूमिभिस्तद्वत्यः उर्मिण्यः । ' तुन्दादिषु स्वाङ्गाद्विवृद्धौ' इति पाठादिनिप्रत्ययः । स्वमङ्गं स्वाङ्गम् । पूर्ववदीर्घत्वम् । मधुमत्तमाः मधुरतमाः । मन्द्राः मादयियः । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । 'स्फायितञ्चि' इत्यादिना रक्प्रत्ययः । किमर्थ सम्पच्यत इत्याह–धनस्येति । धनस्य सान्नाय्यलक्षणस्य । सातये लाभाय । धनवनषणसम्भक्तौ, 'जनसनखनां
*बा. ३-२-३.
For Private And Personal Use Only