________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
[का १. प्र. १.
'हुतस्स्तोको हुतो द्रप्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवीभ्या “सा विश्वायुस्साविश्वव्यंचापयःप्रभृतीनां वसूनां शतधारमनेकप्रकारं पवित्रं पावनमसि । प्राणात्मनां वसूनां सहस्त्रधारं पूर्वस्मादपि बहुप्रकारं पावनमास यागसाधनद्वारेण । 'पुवस्संज्ञायाम् ' इति इत्रप्रत्ययः ॥
"स्तोकाननुमन्त्रयते-हुत इति ॥ अल्पो बिन्दुस्तोको महाबिन्दुर्द्रप्सः । दोहनकालेऽमहान्बिन्दुः पात्राद्वहिर्निपतितस्स्तोकः, स हुतोस्तु देवतोद्देशेन परित्यक्तोस्तु । द्रप्सोपि हि हुतोस्तु । कस्मै । अनये बृहते नाकाय नाकनाम्ने । कं सुखं, तदस्य नास्तीत्यकः, तस्मादन्यो नाकः । 'न भ्राण्नपात्.' इति निपातितः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । 'बृहन्महतोरुपसङ्ख्यानम् ' इति बृहतः परस्याजादेविभक्तेरुदात्तत्वम् । 'दिवि नाको नामाग्निः '* इत्यादि ब्राह्मणम् । एवं हुतोस्त्विति सङ्कल्पेन हविषोस्कन्नता क्रियते । कः पुनरित्थं वदतीत्याह, स्वाहा स्वयमेव सरस्वती आह ब्रूते । 'स्वैव ते वागित्यब्रवीत् '* इत्यादि ब्राह्मणम् । स्वयमेवाहेत्यस्यार्थस्य द्योतकोयं निपातः । आह स्वेत्यस्य प्रतिलोमपाठे स्वाहेति भवति । निपाता आद्युदात्ताः । न केवलं नाकायैवापितु, द्यावाप्रथिवीभ्यामपि हुतोस्त्विति । 'दिवो द्यावा' इति द्यावादेशः आधुदात्तः । 'देवताद्वन्द्वे च ' इति पूर्वोत्तरपदयोः प्रकृतिस्वरत्वम् ॥
प्रथमां दुग्धां गामभिमन्त्रयते-सा विश्वायुरिति ॥ या प्रथम दुग्धा गौस्सा विश्वायुर्नाम, विश्वं आयुर्जीवनं यस्यामिति पृथिव्यभिधीयते । तदात्मना च गौः स्तूयते । ' इयं वै विश्वायुः '* इत्यादि ब्राह्मणम् ॥
*ब्रा. ३-२-३,
For Private And Personal Use Only