________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
250
तैत्तिरीयसंहिता
का. १. प्र. २.
उत स्वानासौ दिविषन्त्वग्नेस्ति
ग्मायुधा रक्षसे हन्तवा । सदै रक्षसे । विनिक्ष इति वि-नि: । "उत । स्वानासः । दिवि । सन्तु । अग्नेः । तिग्मायुधा इति तिग्म-आयुधाः। रक्षसे । हन्तवै । उ । मर्दै।
1 अथ याज्याविकल्पः, उपहोमार्था वा-उतेति ॥ स्वानासः स्वनं कुर्वन्तः हविःप्रक्षेपसमुपजनितमहाशब्दाः । स्वनतेर्व्यत्ययेन कर्तरि घञ् , आजसेर सुक् , 'कर्षात्वतः' इत्यन्तोदात्तत्वम् । ईदृशाः अग्नेः रश्मयः उत दिवि दिव्यपि सन्तु सर्वत्राकाशे विजृम्भन्ताम् । छान्दसं पत्वम् । 'उडिदम् ' इति विभक्तेरुदात्तत्वम् । स्वाना इति रश्मिनामेति केचित् । तिग्मायुधाः तीक्ष्णायुधाः । तिग्मं तैक्ष्ण्यमेव आयुधस्थानीयं शत्रूणां वेधकत्वात् येषां ते तव रश्मयः दिव्यपि प्रकाशन्ताम् । किमर्थ ? रक्षसे हन्तवै रक्षोवधार्थम् । हन्तेः कृत्यार्थे भावे तवैप्रत्ययः । प्ररुजन्तु प्रकर्षेण भक्षयन्तु हवींषि । रुजो भङ्गे तौदादिकः । यहा-भामाः क्रोधनशीलाः रुत्वा क्वा ?] अस्य रश्मयः प्ररुजन्तु प्रकर्षेण रक्षःप्रभृत्यपि भक्षयन्तु । मदेचित् मदायैवास्य । यद्वाउपमानार्थश्चिच्छब्दः । महस्मे मध्याह्ने] वर्तमानस्यास्य यथा रश्मयो विश्वं दहन्ति, एवमस्मद्रिपून भक्षयन्त्विति । एवमस्मद्विषये प्रवर्तमानमेनमग्निं अदेवीः अदेव्यः आसुर्यः परिबाधः पीडाः न वरन्ते न वृण्वन्तु न प्राप्नुवन्तु । वृो वृङो वा
For Private And Personal Use Only