SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. १४ . ] www. kobatirth.org भास्करभाष्योपेता Acharya Shri Kailassagarsuri Gyanmandir भा॑त्य॒ग्निराविर्विश्वा॑नि कृणुते महित्वा । प्रादे॑वीर्मा॒यास्त॑हते दुरेवाश्शिशी॑ते॒ शृते॒ रक्ष॑से वि॒निक्षै । 6 अ॒ग्निः । आ॒विः । विश्वा॑नि । कृ॒णुते॒ । म॒हि॒त्वेति॑ महि-त्वा । प्रेति॑ । अदे॑वः । मा॒याः । स॒ह॒ते । दुरेवा इर्त दुः- एर्वाः । शिते । शृङ्गे इति । आविष्कृणुते आविष्कुर्वीत । किञ्च – अदेवीः अदेवनशीलाः आसुररीर्मायाः प्रसहते अभिभवेत् । दुरेवाः दुःखेनैतव्याः दुष्प्रधर्षा इति यावत् । एतेर्वः*, कृदुत्तरपदप्रकृतिस्वरत्वम् । किञ्च — शृङ्गे शृङ्गस्थानीये प्रधाने आत्मीये ज्वाले शिशीते। तीक्ष्णीकुरुते । श्यतेर्व्यत्ययेन आत्मनेपदम् पूर्ववच्छपश्छु, इत्वं चाभ्यासस्य, ' तास्यनुदात्तेत् ' इति लसार्वधातुकानुदात्तत्वे 'अनुदात्ते च' इत्याद्युदात्तत्वम् । किमर्थं शिशीत इत्याह--- रक्षसे विनिक्षे रक्षोविनाशार्थम् । पूर्ववत्कर्मणस्सम्प्रदानत्वम् । विनिक्षे—- णिक्षि चुम्बने, 'कृत्यार्थे तवैकेन् ' इति केन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् । ज्वालाभ्यां रक्षसचुम्बनं दाह एव, रक्षसो दाहार्थं शृङ्गे तीक्ष्णीकरोत्विति । यद्वा—णिजेश्शोधनकर्मणः ' तुमर्थे सेसेनसे ' इति क्सेप्रत्ययः, परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । सनि वा व्यत्ययेन गुणाभावः । विनाशे बन्धनं विनाशनमेव ॥ 249 *ख. ग - दुरुपसृष्टा देतेरोणादिको यत्प्रत्ययः. ख-ग -ज्वाले । शृणोतेश्शृङ्गे हिंस्रभूते शत्रुजाते शिशी ते. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy