________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
248
तैत्तिरीयसंहिता
[का. १. प्र. २.
शिशांनो अग्निः क्रतुभिस्समिट्ठस्स नो दिवा ॥ ३३ ॥ स रिषः पातु
नक्तम् । वि ज्योतिषा बृहता प्रथिष्ठम् । उपेति । यामि । शर्म । शिशानः । अग्निः । क्रतुभिरिति ऋतु-भिः । समिड इति सं-इहः । सः । नः । दिवा ॥३३॥ सः। रिषः। पातु। नक्तम् । “वीति । ज्योतिषा । बृहता । भाति।
प्रथिष्ठं पृथुतमम् । यहा-प्रथयितृतमम् । प्रथितृशब्दात् 'तुश्छन्दसि' इतीष्ठन्, 'तुरिष्ठेमेयस्सु' इति तृलोपः । ईदृशं तं शर्म शरणमुपयामि रक्षकं भने । स च क्रतुभिः समिद्धः प्रज्ञाभिस्सन्दीप्तः अस्मदीयैर्वा यजनैः प्रवृद्धतेजाः । अग्निः अङ्गनादिगुणयुक्तः । शिशानस्तीक्ष्णीभवन् । श्यतेर्व्यत्ययेनात्मनेपदम्, 'बहुलं छन्दसि' इति शपश्चः, अभ्यासस्येत्वम्, ' अभ्यस्तानामादिः' आधुदात्तत्वम् । ईदृशस्स नः अस्मान् दिवा च नक्तं च रिषः पातु दुःखाद्रक्षतु । हिंस्राद्वा रक्षःप्रभृतेरस्मान्पातु । पूर्ववद्विभक्तेरुदात्तत्वम् 'सावेकाचः ' इति ॥
"अथ याज्या-वीति ॥ अयमग्निर्वृहता ज्योतिषा महता तेजसा इत्थंभूतस्सन् विभाति विशेषेणाभाति महाननेनास्मदीयेन हविषा । —बृहन्महतोरुपसङ्ख्यानम् ' इति तृतीयाया उदात्तत्वम् । किञ्च-विश्वानि महित्वा माहात्म्यानि । ' शेश्छन्दसि ' इति लोपः।
For Private And Personal Use Only