________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४.]
भट्टभास्करभाष्योपेता
247
गृभाय । दहाशसो रक्षसः पाद्यस्मान्द्रुहो निदो मित्रमहो अवद्यात्। रक्षोहण वाजिनमा जिघर्मि
मित्रं प्रथिष्ठमुप॑ यामि शर्म । शुस्यमानम् । गृभाय । दह । अशसः । रक्षसः। पाहि । अस्मान् । द्रुहः । निदः। मित्रमह इति मित्र-महः । अवद्यात् । "रक्षोहणमिति रक्षःहनम् । वाजिनम् । एति । जिघर्मि । मित्रम् । हिंसाद्वारा । रक्षसः राक्षसान् । पूर्ववन्नविषयत्वाभावादाद्युदात्तत्वाभावः । किञ्च-अस्मान् पाहि रक्ष । कस्मादित्याह--द्रुहः द्रोहात्परकर्तृकात् । निदः । निन्दतेः क्विप् । निन्दायाः परकर्तृकायाः । अवद्यात् परिवादात् परकर्तृकात् अस्मान्पाहि । उभयत्र 'सावेकाचः' इति विभक्तेरुदात्तत्वम् , तृतीयस्य तु 'अवद्यपण्य' इति निपातनात् , ' ययतोश्चातदर्थे ' इत्युत्तरपदान्तोदात्तत्वम् । हे मित्रमहः सर्वस्य मित्रवदुपकारकं महस्तेनो यस्य स तादृशः॥ ____अथ पुरोनुवाक्या-रक्षोहणमिति ॥ ‘रक्षोनी याज्यानुवाक्ये भवतः '* इति च ब्राह्मणम् । रक्षसां हन्तारं वाजिनमन्नवन्तं अन्नस्य दातारं आजिमि अनेन · हविषा आभिमुख्येन संदीपयामि । घृक्षरणदीप्त्योः । जुहोत्यादिकः, 'बहुलं छन्दसि । इत्यभ्यासस्येत्वम् । मित्रं सर्वेषां सुहृद्भूतम् । मिदो दुःखालायक *सं. २-२-२.
कि. ख. ग-मितेर्तुःखा.
For Private And Personal Use Only