________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
246
तैत्तिरीयसंहिता
का. १. प्र. २.
PAWAANrary
सूदय सत्यतातेनुष्ठया कृणुह्यह्र याण । अया ते अग्ने समिधा
विधेम प्रति स्तोम शस्यमानं सूदय । सत्यतात इति सत्य-ताते । अनुष्टुया । कृणुहि । अयाण । "अया। ते । अग्ने । समिधेति सं-इधौ । विधेम । प्रतीति । स्तोम॑म् ।
तौ सूदय आनय । घूद क्षरणे । अनुष्ठुया अनुक्रमेण स्थितौ कृणुहि कुरु । ' उतश्च प्रत्ययाच्छन्दो वा वचनम् ' इति हेलुंगभावः । अनुक्रमेण स्थापनमनुष्टु । ' अपदुस्सुषु स्थः ' इति विधीयमानः कुप्रत्ययो व्यत्ययेनानुपूर्वादपि भवति, सुषामादित्वात् षत्वम् , ततः परस्यास्तृतीयायाः ‘सुपां सुलुक् ' इति याजादेशः । अहयाण भक्तानां अटेपयितः, विजयकरत्वात् । जितेर्व्यत्ययेन शपो लुक् , 'छन्दस्युभयथा' इति चानशः आर्धधातुकत्वात् डिस्वाभावः । व्यत्ययेन वा शपि मुगभावः ॥
1Bअथ पञ्चदशी-अयेति ॥ हे अग्ने अया अनया समिध, समिन्धनेन सामिधेनीकृत्येन । इदमस्तृतीयायाः ‘सुपां सुलुक् ' इति याजादेशः, त्यदाद्यत्वम्, 'अतो गुणे' इति पररूपत्वं, हलि लोपश्च, 'अनाप्यकः' इति व्यत्ययेन न प्रवर्तते । ते त्वां विधेम परिचरेम । पूर्ववत्कर्मणस्सम्प्रदानत्वम् । स्तोपं स्तोत्रं शस्यमानं प्रतिगृभाय प्रतिगृहाण । 'छन्दसि शायजपि ' इति शायच् , 'हृग्रहोर्भः' इति भत्वम् । अशसः अशंसनान अस्मद्वेष्यान् । बहुव्रीहिर्वा । अशेर्वा असुन् । व्यापकान्
For Private And Personal Use Only