________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भभास्करभाष्योपेता
245
पवो ना है ॥ ३२ ॥ देवः । त्वया वय५ सधन्यस्त्वोतास्तव प्रणीत्य
श्याम वाजान् । उभा शसा ह ॥ ३२ ॥ देभुः । “त्वया । वयम् । सधन्य इति सध-न्यः । त्वोताः । तव । प्रणीतीति प्र-नीती । अश्याम । वाजान् । उभा । शश्सा।
चेति वक्तव्यम् ' इति लिटः कित्त्वादुपधालोपः । दभिः प्रकत्यन्तरं वा । 'अन्येषामपि दृश्यते' इति नशब्दस्य संहितायां दीर्घत्वम् ॥
“अथ चतुर्दशी-त्वयेति ॥ हे अग्ने त्वया सधन्यस्सहनेतारो वयं त्वं च वयं च सहाभिमतानि नयाम इत्यर्थः । ' सधमादस्थयोः ' इति विधीयमानस्सधादेशो व्यत्ययेनात्रापि भवति, 'एरनेकाचः' इति यणादेशः, 'उदात्तस्वरितयोर्यणः' इति विभक्तिस्स्वर्यते । त्वोताः त्वया उताः रक्षिताः । छान्दसी रूपसिद्धिः, 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् , बहुविकारत्वादनवग्रहः । तव प्रणीती प्रणीत्या प्रणयनेन अनुज्ञानेन परिचरणेन वा वयं वाजानन्नानि अश्याम भक्षीमहि । 'सुपां सुलुक् ' इति प्रणीतिशब्दात्परस्यास्तृतीयायाः पूर्वसवर्णदीर्घत्वम् , 'तादौ च' इति गतेः प्रकाोस्वरत्वम् । किञ्च-- हे सत्यताते सत्यकारिन् । व्यत्ययेन तातिल्प्रत्ययः । यद्वा-तनोतेः क्तिनि छान्दसं दीर्धत्वम् । हे सत्यविस्तार । उभा शंसा उभै शंसनीयौ अर्था वैहिकमामुष्मिकं च । 'सुपां सुलुक् ' इत्याकारः।
*34
For Private And Personal Use Only