________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १४.]
भभास्करभाष्योपैता
243
प्रजस्तरणयस्सुशेवा अतन्द्रासोऽवका अश्रमिष्ठाः । ते पायवस्सधि
यञ्चो निषद्याग्ने तव॑ नः पान्त्वमूर । सुशेवा इति सु-शेवाः । अतन्द्रासः । अवृकाः। अश्रमिष्ठाः । ते । पायवः । सध्रियश्चः। निषधेति नि-सद्य । अग्ने । तव । नः। पान्तु । अमर ।
न्मानो न भवन्तीत्यस्वप्नजाः । 'सुपां सुलुक्' इति जसरस्वादेशः, सतिशिष्टत्वादव्ययपूर्वपदप्रकृतिस्वरत्वम् । तरणयः दुरिततरणहेतवः । तरतेरनिप्रत्ययः । सुशेवाः सुसुखाः । 'शेवायह्वा' इति निपात्यते । अतन्द्रासः अलसत्वरहिताः । 'आज्जसेरसुक् ' । अवृकाः वृकत्वं हिंस्रत्वं तदहिताः । 'नञ् सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अश्रमिष्ठाः अखेदयितृतमाः । श्रमु खेदे, तृजन्तात् 'तुश्छन्दसि' इतीष्ठन्, 'तुरिष्ठेमेयस्सु' इति लोपः । एवंस्वभावास्ते तादृशाः हे अग्ने तव पायवः जगत्पालनशीलाः रश्मयः । ' कृपावानि' इत्युण्प्रत्ययः । सध्रियश्वस्सहाश्चन्तः सम्भूयकारिणः । 'सहस्य सध्रिः ' । निषद्य अस्मद्यज्ञे निषीदन्तो भूत्वा सर्वे अस्मद्यज्ञमागत्य त्वयि निषण्णास्त्वामुद्दीपयन्तः नः अस्मान् पान्तु रक्षन्तु । हे अमूर अमोहनशील । मुर्छ मोहसमुच्छ्राययोः, विपि 'राब्लोपः', ततो मत्वर्थीयोऽप्रत्ययः । मोहनशीलो मूरः ततोन्योऽमूरः । यहामूङ् बन्धने, औणादिको रक् । अमूर अबन्धनीय अनिग्राह्य । यहा-अमतेरूरन् प्रत्ययः । अमूरः अप्रतिहतगतिः ॥
For Private And Personal Use Only