________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
242
तैत्तिरीयसंहिता
का. १. प्र. २.
वचौभिस्तन्मा पितुर्गोतैमादन्वियाय । त्वनौ अस्य वर्चसश्चिकिद्धि
होतर्यविष्ठ सुक्रतो दमूनाः। अस्व अन्विति । इयाय । न्वम् । नः । अस्य । वर्चसः। चिकिहि । होतः । यविष्ठ । सुक्रतो इति सु-कतो दमूनाः । अस्वप्नज इत्यस्वप्न-जः । तरणयः। तस्मागोतमात् त्वद्वान्धवहतुभूतगोतमात् साधुतमात् स्तुतिवचसो हेतुभूतात् पितुरन्नमपि मामियाय एति उपगच्छति तेनैव बान्धवेन । यहा-तत्तादृशं वचो गोतमात् पितुस्सकाशान्मामन्वियाय सा स्तुतिशक्तिर्मामुपसङ्कान्ता इत्यर्थः । त्वमेव खल्वस्य स्तुतिवचसः अस्मदीयस्य चिकिद्धि जानासि एतत् ज्ञातुं शक्नोषि । कित ज्ञाने, जुहोत्यादिकः । अस्येति स्तोत्ररूपं निर्दिशति, न तु प्रकृतं वचः । तेनान्वादेशाभावः । यहा-प्रथमपक्षे एकवचनान्तस्य वचश्शब्दस्याप्रकृतत्वादस्येति प्रथमादेशत्वेनान्वादेशाभावः। तत्र 'उडिदम्' इति विभक्तरुदात्तत्वम् । इतरयोस्तु पक्षयोर्व्यत्ययेनान्वादेशाभावः, कते वानुदात्तत्वाभावः । कस्तव विशेष इत्याहहे होतः देवानामाह्वातः यविष्ठ युवतम सुक्रतो शोभनप्रज्ञ । 'नामन्त्रिते समानाधिकरणे' इति प्रथमस्याविद्यमानत्वनिषेधात्परमामन्त्रितद्वयं निहन्यते । दमूनाः दान्तमना दानमना वा । एषोदरादिः । ईदृशस्त्वमेवैतच्चिकिद्धि किमन्यनाज्ञानिना इति ॥ ___"अथ द्वादशी-अस्वप्नन इति ॥ अस्वप्नशीलः । ' स्वपितृषो नेजिङ्क' । पदकारानभिमतत्वात् अन्यथा व्याख्यायते-स्वमज
For Private And Personal Use Only