________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
240
तैत्तिरीयसंहिता .
[का. १. प्र. २.
सस्सपेमाभि द्युम्ना तस्थिवासो जनानाम् । यस्त्वा स्वश्व॑स्सुहिर
ण्यो अंग्न उपयाति वसुमता रथैन। सु-मनसः। सपेम । अभीति । द्युम्ना । तस्थिवाश्सः। जनानाम् । “यः। त्वा । स्वश्व इति सु-अश्वः । सुहिरण्य इति सु-हिरण्यः । अग्ने । उपयातीत्युप-याति । वसुमतेत वसु-मता। दोषावस्तः दीप्यमानम् । अनुगनित्युपचरणं विशेष्यते अनुदिनमुपाचरेदिति । तस्माद्वयं क्रीडन्तः तृप्यन्तस्सुमनसः अप्रतिकूलमनसः शोभनमनसो वा । त्वा त्वामेव सपेम भजेम । पप समवाये । 'सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वं सुमनश्शब्दस्य । जनानां गुम्रानि धनानि यशांसि वा अभितस्थिवांसः अभितिष्ठन्तः त्वत्प्रसादेनात्मसात्कुर्वन्तः त्वत्सम्बन्धिन एव सर्वदा भवेमेति । 'शेश्छन्दसि बहुलम् ' इति द्युम्नेत्यत्र शेर्लोपः । 'वस्वेकाजाद्वसाम् ' इति तिष्ठतेरिडागमः ॥ ।
10अथ दशमी-यस्त्वति ॥ हे अग्ने स्वश्वः शोभनाश्वः महाधनः याग*योग्य इति यावत् । 'आधुदात्तं यच्छन्दसि' इत्युत्तरपदाधुदात्तत्वम् । मुहिरण्यः । 'नञ्सुभ्याम्' इत्युत्तरपदान्तो. दात्तत्वम् । य ईदृशस्सन् वसुमता ब्रीह्यादिधनवता रथेन त्वामुपयाति तस्य त्राता भवसि सर्वदुरितेभ्यः । किञ्च-तस्य सखा भवसि । कस्य ? यस्त्वामानुषक् अनुषक्तं नित्यं आतिथ्यमति
*ख. ग-महा.
For Private And Personal Use Only