SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 238 तैत्तिरीयसंहिता का. 1. प्र. २. ते सुमति घोष्यक्सिं ते वावार्ता जरताम् ॥ ३० ॥ इयं गीः । स्व श्वास्त्वा सुरा मर्जयेमास्मे क्षत्राताम् ॥ ३० ॥ इयम् । गीः । स्वश्वा इति सुअश्वाः । त्वा । सुरथा इति सु-स्थाः । मर्जयेम । अस्मे इति । क्षत्राणि । धारयेः । अन्विति । द्यून् । दृशी गीः? त्वामेव वावाता पुनःपुनस्त्वामेवोपगच्छन्ती क्षणमपि त्वां हातुमशक्नुवन्ती । वातेर्यङ्गन्तान्निष्ठा, व्यत्ययेन धातुस्वरः । त्वां संवावाता त्वां सङ्गच्छन्ती वान्वीयते । यहा-त्वामञ्चिता वा अवगच्छन्तीति वा । 'वष्टि वागुरिरल्लोपम्' इत्यवशब्दाकारो लुप्यते, 'अन्येषामपि ' इति साहितिकं दीर्घत्वम् । यहाआद्यन्तविपर्ययो वा अवशब्दस्य ; यथा-'श्वात्रोसि'* इत्याशुशब्दस्य । 'परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । यहा-अतिशयेन वननीया । य१कि छान्दसी रूपसिद्धिः । स्तुतिर्विशेष्यते-घोषि घुष्यत इति घोषि । ' इन्सर्वधातुभ्यः । इतीन्, क्रियाविशेषणत्वान्नपुंसकत्वम् । अर्वाक् अर्वाचीनमस्मादृशजनोचितं, यथास्माभिर्घोषयितुं शक्यते तथा घोषयित्वा त्वद्गुणानियं स्तोतु । अथ कायिकी परिचर्यामाहस्वश्वास्सुरथाश्च सन्तः त्वत्प्रसादेन महाधनाः पुत्रपौत्रादिसहिताश्च सन्तस्त्वामर्च येम अलङ्कर्मः, परिचरेमेति यावत् । मृञ् शौचालङ्करणयोः, वृद्ध्यभावश्छान्दसः । शुद्धिकर्मण एव वा शुवृद्ध्या भाव्यम् । 'आद्युदात्तं *सं. १-३-३. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy