________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.
भट्टभास्करभाष्योपेता
237
पिप्रीपति स्व आयुषि दुरोणे विश्वे
दस्मै सुदिना सासदिष्टिः। अर्चामि स्वे । आयुषि । दुरोण इति दुः-ओने । विश्वा । इत् । अस्मै । सुदिनेति सु-दिना । सा । असत्। इष्टिः । अामि । ते । सुमतिमिति सु-मतिम् । घोषि । अर्वाक् । समिति । ते । वावाता । जर
व । आत्मीये ग्रहे स्थितं त्वां पिप्रीषति, न तु ऋत्विनाम् । दुःखेन रक्ष्यत इति दुरोणम् । अवतेरौणादिको नप्रत्ययः, ज्वरत्वरादिना उठि गुणः, 'पूर्वपदात्संज्ञायामगः' इति णत्वम्, कटुत्तरपदप्रकृतिस्वरत्वम् । किञ्चेत्याह—सा तादृशीत्थंभूतेन क्रियमाणा विश्वेत् विश्वैव न पुनरेकैव । इष्टिर्यागः सुदिना शोभनदिना असद्भवति । अस्मै अस्य । षष्ठयर्थे चतुर्थी, पूर्ववदुत्तरपदाद्युदात्तत्वम् । यद्वा-अस्य यजमानस्य विश्वान्यपि सुदिनानि भवन्ति । किञ्च-सा तादृशेन क्रियमाणा इष्टिरसद्भवेत् । अतादृशेन क्रियमाणा इष्टिरेव न भवति । तस्मात्स एव सुभगस्सुदानुश्वास्तु । भगो रूपमैश्वर्यं वा । दानुर्दानशीलः दातृत्वं वा। अस्तेर्लेटि ‘लेटोडाटौ' इत्यडागमः, 'इतश्च लोपः' ॥
अथाष्टमी-अर्चामीति ॥ हे अग्ने ते तव सुमतिं शोभनां मतिमुपकी बुद्धिमर्चयामि पूजयामि मनसा बहुमन्ये । सुष्छु मन्यतेनयेति सोपसर्गात्तिनि समासे कदुत्तरपदप्रकृतिस्वरत्वम्, 'मन्त्रे वृष ' इति क्तिन उदात्तत्वम् । इयं मदीया गीश्च ते त्वां सञ्जरतां सम्यक्स्तौतु । जरतिस्स्तुतिकर्मा छन्दसि । की
*33
For Private And Personal Use Only