SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 तैत्तिरीयसंहिता का. १. प्र. २. द्यौत् । सेदने अस्तु सुभगेस्सुदा नुर्यस्त्वा नित्यैन हविषा य उक्थैः।। अभीति । द्यौत् । 'सः । इत् । अग्ने । अस्तु । सुभग इति सु-भर्गः। सुदानुरिति सु-दानुः । यः। त्वा । नित्यैन । हविर्षा । यः। उक्थैः । पिसषति । यथा शोभनानि विश्वानि दिनानि भवन्ति, तथा तेषु विद्योतस्व । 'परादिश्छन्दसि बहुळम् ' इत्युत्तरपदाद्युदात्तत्वम् । दुरोभि गृहानभिलक्षीकृत्य विश्वानि दिनानि द्योतस्व । रायो धनस्य स्वामी त्वम् । अन्ये तु वाक्यभेदेन व्याचक्षते---विश्वान्यपि सुदिनान्यस्मै भवन्ति । द्युम्नानि यशांसि च भवन्ति । रायो धनस्य स्वामी भवति । गृहानभि विद्योतते, गृहस्थश्च भवतीति ॥ _ 'अथ सप्तमी-सेदिति ॥ हे अग्ने स इत् स एव सुभगोस्तु सौभाग्यवान् भवतु, सुदानुः शोभनदानश्च । उभयत्रापि 'आधुदात्तं द्वयश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । 'सोचि लोपे चेत्' इति स इत्यस्य संहितायां सोर्लोपः । क इत्याह यस्त्वा नित्येन अविच्छिन्नेन यावज्जीवसङ्कल्पनां परिपालयन् हविषा पिप्रीपति प्रीणयितुमिच्छति ; न कदाचिदपीमां हित्वा यजमानो भवति । प्रीञ् तर्पणे । यश्चोक्थैश्शस्त्रैस्त्वां पिप्रीषति स एव । कस्मिनिमित्त इत्याह--स्वायुषि आत्मीये जीवितेनौ वा निमित्ते । निमित्तात्कर्मसंयोगे सप्तमी । आत्मार्थं न परार्थमिति स्वग्रहेण दर्शयति । कुत्र स्थित इत्यत आह-दुरोणे गृहे स्व इत्ये For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy