________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
234
तैत्तिरीयसंहिता
का. १. प्र. २.
हि शत्रून् । स ते ॥२९॥ जानाति
सुमतिं यविष्ठ य ईव॑ते ब्रह्मणे 'सः । ते ॥ २९ ॥ जानाति । सुमतिमिति सुमतिम् । यविष्ट । यः । ईवते । ब्रह्मणे । गातुम् ।
चाजामि च शत्रु मारय यः पूर्व प्रहृतस्तमपि प्रहर, हतोयमिति मोपेक्षिष्ठाः, यश्च न प्रहृतः कुतश्चित्कारणात्तमपि प्रहर, वराकोयं न हन्तव्य इत्यादि चेतसि माकथाः । इदमेव कात्न्यं प्रतिपादयितुं बहुवचनं प्रयुक्तम् । एकेन जामिमारणेन एकेनाजामिमारणेन देवस्य कृतार्थता माविज्ञायोति । यहा–वे अप्येते क्रियाविशेषणे, व्यत्ययन ‘स्वमोनपुंसकात्' इति न क्रियते । पुनरुक्तमपुनरुक्तं च शत्रून् मारयेति ॥
अथ षष्टी–स त इति ॥ हे अग्ने यविष्ठ युवतम । यद्वाहविर्देवानाम्मिश्रयितृतम । यौतेः तृजन्तादिष्टन् । स ते तव जानाति मुमतिं शोभनां कल्याणकारिणी मतिं स एव तवानुग्रहबुद्धि यथावत् भजत इति यावत् । यहा—स एवं त्वत्प्रसादात्सुमतिमात्महितं जानाति, स एवात्महिते प्रवर्तत इति यावत् । कृदुत्तरपदप्रकृतिस्वरत्वम्, 'मन्त्रे वृष' इति मतिशब्दोन्तोदात्तः । क इत्याह-य ईवते गमनवते प्रशस्तगतये कल्याणहेतुभूतागमनाय । यहा—गृहमागताय ब्रह्मणे परिबृढाय । तुभ्यं गातुमन्नं हविर्लक्षणं ऐरत् ईरयति ददाति* । ईर क्षेपे, चुरादिराधृषीयः, छान्दसो लुङ् । इङ् गतौ, क्विवन्तात्प्रशंसायां
*ग-प्रेरयति.
For Private And Personal Use Only