________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
230
तैत्तिरीयसंहिता
[का. १. प्र. २.
वि सृज विष्वगुल्काः । प्रति स्पशो वि सृज तूर्णितमो भा पायु
विंशो अस्या अदब्धः । यो नो उल्काः । प्रतीति । स्पर्शः । वीति । सृज । तूर्णितम इति तूर्णि-तमः । भव । पायुः। विशः।
अथ तृतीया-प्रतीति ॥ अन इति चतुर्थपादादिः, अत एव न निहन्यते । हे अग्ने नः अस्माकं यो दूरे स्थितः अघशंसः यो वा अन्ति अन्तिके । 'कादिलोपो बहुळम् ' इति कलोपः । अघं पापात्मकं शंसनमभिलाषः कीर्तनं वा यस्य सोघशंसः, वधादिकारी, दुरुक्तवादी वोच्यते । तथा प्रतिस्पशः पाशान् विसृज विस्तारय पाशैस्तं बधानेत्यर्थः । स्पश ग्रहणशोषणयोः, करणे सम्पदादिलक्षणः विप् । यद्वा-स्पश बाधने, बाधकान्यायुधादीनि तं प्रति विसृज । तूर्णितमः त्वरिततमस्सन् । त्वरतेः क्तिनि निष्ठावद्भावेन निष्ठानत्वे 'ज्वरत्वरस्रव्यविमवामुपधायाश्च ' इत्यूठ् । किञ्च-भव पायुः पालयिता अस्या विशः प्रजायाः । कस्याः ? त्वामनुगतायाः अस्मदादिकायाः न पुनः प्रकृतायाः । अत एवान्वादेशाभावात् 'उडिदम् ' इति विभक्तरुदात्तत्वं प्रवर्तते । 'सावेकाचः' इति विशो विभक्तेरुदात्तत्वम् । 'हृयचोतस्तिङ: ' इति संहितायामाख्यातस्य दीर्घत्वम् । 'कुवापाजिमि' इत्युण्प्रत्ययः । अदब्धः अनुपहिसितः केनापि । किञ्च-माकिः मा कश्चिदपि ते त्वामादधर्षीत् आधर्षयतु, तव कश्चिदपि परिभवं माकार्षीदित्यर्थः । धृष प्रसहने
For Private And Personal Use Only