SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. १४. ] www. kobatirth.org भास्करभाष्योपैता Acharya Shri Kailassagarsuri Gyanmandir तपू॒ष्या॑ग्ने॒ जुह्वा॑ पत॒ङ्गानस॑न्दितो तपू॒ष । अ॒ग्ने॒ । जुह्वा॑ । प॒त॒ङ्गान् । अस॑न्दत॒ इत्यस॑वि॒त॒ः । वीति॑ । सृज॒ । विष्व॑क् । 229 " धृषता अभिभवित्रा । धूप प्रसहने चुरादिराधृषीयः व्यत्ययेन शः, 'शतुरनुमः' इति विभक्तेरुदात्तत्वम् । भावप्रधानोयं, धर्षकत्वेनेत्यर्थः । शोशुचानः भृशं दीप्यमानः । यगन्ताद्वयत्ययेनात्मनेपदम् ' अभ्यस्तानामादिः ' इत्याद्युदात्तत्वम् । इदानीं दहनोपाय उच्यते ——तपूंषि तापानौष्ण्यलक्षणान् तपनशीलान् । तपेरुसि प्रत्ययः । पतङ्गान् पतनशीलान् । पतेरङ्गच्प्रत्ययः । उल्काः उज्जुला: महाज्वालाः । पृषोदरादिः । एवमेतत्त्रितयं विष्वग्विसृज इतश्चेतश्च निस्सारय । विषु नाना अञ्च - तीति ऋत्विगादिना क्विनुप्रत्ययः । न्यधी च' इति चकारस्यानुक्तसमुच्चयार्थत्वात् पूर्वपदप्रकृतिस्वरत्वम् । व्यत्ययेन वाव्ययपूर्वपदप्रकृतिस्वरत्वम् । जुहा असन्दितः अयन्त्रितः ; अग्निर्हि जुहूं दृष्ट्वा यन्त्रित इव भवति न क्वचिद्याति, न चान्यत्करोति, तामेवाज्यवतीं व्याप्रियमाणां पश्यन्तया बद्ध इव भवति, तस्मात्तथा माभूरिति प्रार्थयते जुह्वा जुहा विभक्तेः ' उदात्तयणो हल्पूर्वात् ' इत्युदात्तस्य 'नोत्वोः ' इति प्रतिषेधे 'उदात्तस्वरितयोर्यणः' इति स्वरितत्वं प्रवर्तते । सम्पूर्वाद्दयतेः निष्ठायां द्यतिस्यतिमास्थामित्तिकिति ' इतीत्वम् अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अन्य आह—– असन्दितः केनचिदप्यखण्डितप्रसरस्सन् इत्थं कुरु । तत्र कारणमाह – जुह्वा जुहूस्थेनाज्येने - । " -- त्यर्थः ॥ For Private And Personal Use Only *32 -
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy