SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भभास्करभाष्योपेता 227 ~ ww प्रसितिं द्रूणानोस्तासि विध्य रक्षति प्र-सितिम् । दूणानः । अस्ता । असि । एतदुक्तं भवति यथा राजा अमात्ययुक्तश्शत्रूणां भञ्जनरायुधादिभिस्तद्वान् इभेन हस्तिना शत्रुवधादिकं साधयितुं युक्तो गच्छति, तथा त्वं महद्धलमादाय शत्रुबलनाशनसमर्थन रोगादिना तद्वान् इभेन इरापुष्टेन वीतभयेन तद्वान् गजेन वा सह रक्षांसि हन्तुं याहीति । अमवानिति संहितायां नकारस्य यत्वानुनासिकौ पूर्ववत् । तृप्वी क्षिप्रनामैतत् । प्रकृष्टा सितिस्सेना प्रसितिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अनुदूणानः अनुद्रवन्ननुधावन् । एतदुक्तं भवति-मन्त्रिभिर्बहुलं समस्तं बल*मग्रतः प्रसारयेतीरितां क्षिप्रगामिनी प्रकृष्टां सेनामग्रतः प्रसारितां द्रवन्तीमनुद्रवन् राजेव याहीति । यद्वा-तृष्वी क्षिप्रमागच्छन्ती प्रसितिं परसेनां अनुद्रूणानः अनुक्रमेण हिंसन् याहीति । द्रून् हिंसायां कैयादिकः, पूर्वस्मिन्पक्षे द्रवतेस्ताच्छीलिकश्चानश् , व्यत्ययेन भा धातोश्च दीर्घत्वम् । अथैवं यात्वा रक्षसः राक्षसान् विध्य ताडय । तपिष्ठैः तप्तृतमैः तप्तृशब्दादिष्ठनि 'तुरिष्ठेमेयस्सु' इति तृशब्दस्य लोपः । कस्मादित्थमुच्यत इति चेत् , अस्तासि साधु निरसितासि शत्रूणाम् । यद्वा-शत्रुसम्बन्धिनाममोघानां शस्त्राणामस्ता निरसिता निवारयिता त्वमसि । तस्मात्तपिष्टैस्त्वदीयैरायुधैः तान्विध्येति । अस्यतेस्साधुकारिणि तृन् । रधादित्वादिड्विकल्प्यते । विध्येति तिङः परत्वान्न निहन्यते । रक्षश्शब्दोयमसुनन्तः । रक्षाहेतुत्वादपादानेऽसुन् । क्षरेर्वा हिंसात्कर्तर्यसुन्या *क-वति-मत्तं बल. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy