________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
226 सित्तिरीयसंहिता
का. .६.२. राजेवाम॑वार इभेन । तृष्वीमनु वान् । इभेन । तृष्वीम् । अन्विति । प्रसितिमिआलो यातिर्द्रष्टव्यः, यागसाधनार्थमागमनस्याभिप्रेतत्वात् , यागोत्तरकालं हि रक्षोहननार्थ गन्तव्यमिति । अत्र ब्रूमः-याहीत्येव समीचीनम् । ननु यागोत्तरकालं गन्तव्यं तेन रक्षोहनमार्थम् । मैवं वोचः, न हि देवो विश्वात्मा कुतश्चिदायाति । न क्वचिद्याति । स्तुतिः खल्वियं क्रियते स्वाभिलषितसम्पादनानुरूपा 'याहि, आयाहि, उत्तिष्ठ, प्रत्यातनुष्व, उर्वो भव' इत्यादि स्वरूपा । एतैश्च स्तुतिपदैस्तुष्टा देवता पुरुषमभिलषितेन फलेन योजयति । तस्माद्रमोहननार्थ त्वरितं यातव्यमायातव्यं वा, यागो निर्वर्तित एव मन्तव्य इत्येवं रूपा स्तुतिर्भवत्येवेति किमश्रुतपदाध्याहारेणेति । किञ्च-यागमागच्छतो देवस्य किं बलादिपरिग्रहणेन । हन्तव्यसकाशं गच्छतो हि बलादिना कार्यम् । तस्माद्यथोक्तं बलमादाय हन्तव्यसकाशं गच्छ राजेव, राजा यथा महतीं सेनां कर्षन् शत्रुदेशं गच्छति । राजा विशेष्यते--अमवानमात्यवान् । अमा वर्तन्त इत्यमाः। अप्रत्ययश्छान्दसः । ' तद्धिताः' इति बहुवचननिर्देशाद्वा । यद्वाशत्रूणां मनआदिभञ्जनान्यायुधानि अमशब्देनोच्यन्ते । अमवानिति वृद्ध्यभावश्चान्दसः, 'न कम्यमिचमाम् ' इति वचनात् । पचाद्यचि वा वृषादिद्रष्टव्यः । अमनशब्दस्यैव वान्त्याक्षरलोपः । यथाहुः-' द्वौ चापरौ वर्णविकारनाशौ' इति । इभेन । अत्र नैरुक्ता बहुधा वदन्ति-"इरयान्नेनेडोभयेन भयनिवृत्त्यर्थ प्राप्त इभः इतमपगतं भयमस्येति वा ईभः वीतभयः हस्ती वा"* इति ।
*नि. ६.३.३.
For Private And Personal Use Only