________________
Shri Mahavir Jain Aradhana Kendra
__www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(224
सिरीयसंहिता [का. 1.प्र.३. पृष्टमस विष्णोरभवे स्थो विष्णोस्स्यूरसि विष्णोध्रुवमसि वै
ष्णवमसि विष्णवे त्वा ॥ २७ ॥ पृष्ठम् । असि । “विष्णोः । अपने इति । स्थः । "विष्णोः । स्यूः । असि । “विष्णोः । ध्रुवम् । अति। "वैष्णवम् । अस । विष्णवे । त्वा ॥२७॥ . अस्य यच्छैकान चत्वारिशच्च ॥ १३ ॥ ___ "पार्श्वयोच्छदिषी निदधाति-विष्णोः भत्रे स्थ इति ॥ भत्रे शोधके स्थः । सकारस्य शकारापत्तिः । स्नपतिश्चान्दसश्शुद्धिकर्मा, औणादिकष्ट्रन्प्रत्ययः । स्नातर्वा णिचि पुगादिः ॥ - "दक्षिणवाही कुशमुपसङ्गय स्यन्द्यां प्रवर्तयति-विष्णोस्स्यूरिति ॥ विष्णोः स्यूः सेवनी त्वमसि यज्ञस्य । पिवु तन्तुसन्ताने, 'क्विच ' इति क्विप् 'छोरशूडनुनासिके च' इत्यूत् ॥ ___"द्वारप्रन्थि करोति-विष्णोर्बुवमसीति ॥ विष्णुना ध्रुवमचलित करणीयमसि ॥ __ हविर्धानमण्डपममिमृशति-वैष्णवमिति ॥ वैष्णवं विष्णुदेवत्यं त्वमसि । अतो विष्णवे त्वाममिमृशामि । 'वैष्णवं हि देव. तया हविर्धानम् '* इति ब्राह्मणम् ॥
इति द्वितीये प्रपाठके त्रयोदशोनुवाकः.
*सं.६.२.६.
For Private And Personal Use Only