________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.].
भास्करमाव्योपेता
223
तर सधस्थ विचक्रमाणस्त्रेधोरुगा
यो विष्णोः सराटमास विष्णोः तरम् । सुधस्थमिति सध-स्थम् । विचक्रमाण इति वि-चक्रमाणः । त्रेधा । उरुगाय इत्युरुगायः । "विष्णोः । रराटम् । असि । "विष्णोः ।
सर्वेषामन्तरिक्षम् । 'सुपि स्थः' इति कः । 'सधमाधस्थयोः' इति सधादेशः । तदस्कभायत् अस्तम्भयत् अधारयत् । अस्कनादिति वक्तव्ये 'स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुभ्यः भुश्च' इति भाप्रत्ययः । 'छन्दसि शायजपि' इति व्यत्ययेन हेरभावपि प्रश्शायनादेशः । किं कुर्वन्नित्याह-विचक्रमाणस्त्रेधा त्रिषु लोकेषु विभज्य क्रममाणः पदत्रयं कुर्वन् । लिटः काननादेशः । उरुगायः उरुभिर्महात्मभिर्गायत इति उरुगायः । कै गै शब्दे, घनि 'आतो युकिण्कतोः' इति युक्, थाथादिना उत्तरपदान्तोदात्तत्वम् । यद्वा-उरुभिर्गन्तव्यः । गाङ् गतौ । य इत्थमित्थमकरोत्तस्य विष्णोर्वीर्याणि प्रवोचम् स मेधीदाढच करोत्विति ॥ .. "रराटीमासञ्जयति-विष्णो रराटमसीति ॥ हे रंराटि विष्णो. र्यज्ञात्मनो ललाटमिव प्रधानमसि । कपिलकादित्वाल्लत्वं विकल्प्य ते ॥
"मध्यमं छदिरधिनिदधाति-विष्णोरिति ॥ विष्णोः पृष्ठ पृष्ठसदृशमसि ॥
For Private And Personal Use Only