________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
222
तैत्तिरीयसंहिता
का. १.प्र. २.
णादोत सव्यात् । विष्णोर्नुकं वीर्याणि प्र वोचं यः पार्थिवानि
विममे रजा सि यो अस्कभायदुप्रेति । यच्छ ॥ २६ ॥ दक्षिणात् । एति । उत । सव्यात् । 'विष्णोः । नुकम् । वीर्याणि । प्रेति । वोचम् । यः । पार्थिवानि । विमम इति वि-ममे । रजासि । यः। अस्कभायत् । उत्तरमित्युत्
[आ]कारेणाभिमुख्यं योस्याध्वनो ग्रामादागछतीति यथा । अत एव द्वाभ्यामपि पञ्चम्यन्ताभ्यामावृत्तस्सम्बध्यते । प्रशब्दस्तु विपर्यासानावर्तते । 'दक्षिणस्यादिगाख्यायाम् ' इति दक्षिणशब्द आग्रुदात्तः ॥ __अध्व! मेध्यौ बधीतः-विष्णोर्नुकमिति त्रिष्टुभा ॥ नुकमिति क्षिप्रनाम । विष्णोर्वीर्याणि वीरकर्माणि प्रवोचं प्रकर्षण ब्रवीमि । छान्दसो लुङ् । 'बहुलं छन्दस्यमाङयोगेपि' इत्यडभावः । विष्णुर्विशेष्यते-यः पार्थिवानि पृथिव्यन्तरिक्षयुलोकभवानि । एथिवीशब्देन त्रयो लोका उच्यन्ते, यथा 'यो द्वितीयस्यां तृतीयस्यां एथिव्याम् '* इति । 'एथिव्या जामौ' इत्यञ्प्रत्ययः । यः पार्थिवानि रजांसि ज्योतींषि अनिविद्युत्सूर्यात्मकानि विममे विनिर्मितवान् । यहा-पार्थिवानि पृथुषु भवानि रजांसि वसूनि विममे । किञ्च-य उत्तरं सधस्थं सहस्थानं
*सं. १.२.१२०-१
For Private And Personal Use Only