________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
16
तैत्तिरीयसंहिता
का. १. प्र. 1.
. 'शुन्धध्वं दैव्याय कर्मणे देवय॒ज्याय मातरिश्वनो धर्मोऽसि द्यौरसि पृथिव्यसि विश्वर्धाया
'सान्नाय्यपात्राणि प्रोक्षति-शुन्धध्वमिति ॥ शुन्ध शुद्धौ, डदात्तेत् , व्यत्ययेनात्मनेपदं । यहा, शुन्ध शौचकर्मणि ; अस्माएण्यन्तात्कर्मकर्तर्यात्मनेपदम् । 'यक्चिणोः प्रतिषेधे णि श्रन्धिग्रन्थि ' इत्यादिना यक्प्रतिवेधः । 'बहुळं संज्ञाछन्दसोः' इति णिलुक् । लसार्वधातुकानुदात्तत्वे धातुस्वरः । देवानामिदं दैव्यं 'देवाद्यञौ ' इति यत्ययः प्राग्दीव्यतीयः । जित्त्वादाद्युदात्तत्वं । 'छन्दसि निष्टळ' इत्यादौ देवयज्याशब्दो यप्रत्ययान्तो निपातितः । हे पात्राणि देवयज्यात्मने दैव्याय कर्मणे शुन्धध्वं शुद्धानि भवत, स्वयमेवात्मानं शोधयतेति वा । प्राधान्यख्यापनार्था देवशब्दावृत्तिः, साकल्यार्था वा, यथा 'निधीनां त्वा निधिपतिं हवामहे ' इति ॥
'अङ्गारान्निरूहति-मातरिश्वन इति ॥ मातरि सर्वस्य परिच्छेदके अन्तरिक्षे शेत इति मातरिश्वा । 'श्वन्नुक्षन् ' इत्यादिना शीङः कनिन्प्रत्यये वकारोन्तादेशो निपात्यते । 'तत्पुरुषे कृति बहुळम् ' इत्यलुक् । निपातनसामर्थ्यादेव सप्तम्या उदात्तत्वं । वायुरुच्यते । तस्य यो धर्मः अग्निवैद्युताख्यः स एव त्वमसीति पार्थिवोग्निः स्तूयते । यहा, घरणाधिकरणं धर्मः । क्षरणदीप्त्योः । क्षरणं सञ्चलनी । धर्म इति मन्प्रत्ययान्तो निपातितः । वायोरपि सञ्चलनाधारभूतः अन्तरिक्षमेव त्वमसीति कुम्भ्याधारोङ्गारस्स्तूयते धारणसामर्थ्यख्यापनार्थम् । 'अन्तरिक्षं वै मातरिश्वनो धर्मः । एषां लोकानां विधृत्यै । इत्यादि ब्राह्मणम् ॥ *सं. ७-४-१२. गि-संचरणं.
बा-३.२.३.
For Private And Personal Use Only