________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भट्टभास्करभाष्योपेता
A
"दिन्द्रस्य त्वा बाहुभ्यामुद्यच्छे "बृहस्पते हरा म्युर्वन्तरिक्षमन्विहि "देवंगममंसि ॥३॥
सहस्रवलशा अष्टात्रिशच ॥ २॥
I"बर्हिरुद्यच्छते-इन्द्रस्येति ॥ इन्द्रस्य बाहुभ्यां त्वा त्वां उद्यच्छे उत्क्षिपामि, नात्मीयाभ्यामिति स्तुतिः । ‘समुदाङ्भ्यो यमोऽग्रन्थे ' इत्यात्मनेपदम् ।।
"शीर्षन्नधिनिधत्ते-बृहस्पतेरिति ॥ बृहस्पतेरेव मूर्ना त्वां हरामि, नात्मीयेनेति स्तुतिः । 'उभे वनस्पत्यादिषु युगपत् ' इति युगपदुभयोः प्रकृतिस्वरत्वम् । बृहच्छब्दो वृत्तिविषये आद्युदात्त इप्यते, पतिशब्दश्च । प्रत्ययाद्युदात्तत्वेन मूर्धन्शब्दोन्तोदात्तः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥
1 प्रत्यागच्छति-उर्विति गायत्र्यैकपदया ॥ उरु विस्तीर्णमन्तरिक्षं अन्विहि अनुगच्छ । महान् पन्थाः, सुखेन गच्छेति भावः ॥
1°उपरि सादयति-देवंगममसीति ॥ देवान् गच्छतीति देवंगमम् । 'गमश्च ' इति खच् । श्वो देवगामि असि भवितासि । वर्तमानसामीप्ये लट् । तत्र हविषो धारणाद्वर्हिषो देवंगमत्वं भविता ; प्रस्तरस्य त्वनौ प्रहरिप्यमाणत्वात् । 'दिवं गच्छ '* इति च मन्त्रलिङ्गम् । 'अनधस्सादयति + इति ब्राह्मणम् ॥
इति द्वितीयोनुवाकः.
*सं. १-४-४३.
बा. ३-२-२.
For Private And Personal Use Only