________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
14
तैत्तिरीयसंहिता
[का. १. प्र..
"सुसंभृतां त्वा संभरा म्यदित्यै रास्नाऽ सीन्द्राण्यै सन्नहनं "पूषा ते ग्रन्थि ग्रंभातु “स ते मास्था
"सम्भरति-सुसंभृतेति ॥ सुष्टु सम्भ्रियतेऽनयेति* सुसंभृत् । पूर्ववक्विप् । तादृश्या रज्जा त्वा त्वां सम्भरामि इतरमुष्टिभिस्सह भरामि । भृञ् भरणे, भौवादिकः ॥ _रास्नां करोति-अदित्या इति ॥ षष्ठ्यर्थे चतुर्थी, कर्मणि क्तिन् । अखण्डनीया पृथिवी अदितिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । रास्ना शुल्वं अदित्याः रास्ना त्वमसि, यामदितिरकरोदिति स्तुतिः । सामर्थ्याच्चायं मन्त्रस्सम्भरणमन्त्रात्यूर्वो द्रष्टव्यः ॥
सन्नाति–इन्द्राण्या इति ॥ सैव चतुर्थी । इन्द्रस्य पत्न्यास्सन्नहनं संयमनमसीति स्तुतिः । 'इन्द्राणी वा अग्रे देवतानाँ समनह्यत + इति ब्राह्मणम् । 'प्रथमे उदात्तयणः ' इति विभक्तेरुदा तत्वम् । द्वितीये कदुत्तरपदप्रकृतिस्वरेण 'लिति । प्रत्ययात्पूर्वमुदात्तत्वम् । सन्नहनं च शुल्बान्तयो संश्लेषणम् ; ग्रन्थिकरणस्य विधास्यमानत्वात् ॥
"ग्रन्थि करोति-पूषेति ॥ पूषा आदित्यस्स ते तव ग्रन्थि ग्रथनातु करोतु । सामान्यग्रन्थेः विशेषग्रन्थिः कर्म ॥
"शुल्वान्तमुपगृहति—स ते इति ॥ सः ते तव ग्रन्थिः मा स्थात् , मा प्रदेशान्तरमातिउतु यावद्विमोकं शिथिलो मा भूत् । 'गातिस्था' इति सिचोलुक् ।। *व-अनेनेति वा [इत्यधिकः पाठः].
बा-३-२-२.
For Private And Personal Use Only