________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपेता
ङ्मातिर्यपर्वं ते राध्यास'माच्छेत्ता ते मा रिषं 'देवबर्हिशतवल्शं विरोह सहस्रवल्शाः ॥२॥
वि वय५ रुहेम "पृथिव्यास्संपृचः पाहि 'आच्छिनत्ति-आच्छेत्तेति ॥ रुदुत्तरपदप्रकृतिस्वरत्वम् । मर्यादायामाकारः । मर्यादा च विधानम् । यस्मादहं विधानेन तव छेत्ता, न तु वृथा, तस्मादहं मा रिषं विनाशं मा गाम् । रिलुङि व्यत्ययेन च्लेरङादेशः । केचिदस्य पुषादित्वमिच्छन्ति, यथा 'तेन गच्छन्नरिष्यति '* इति । तदा पुषादित्वादेवाङ् सिद्धः ॥ __ आच्छिन्नानभिमृशति-देवबहिरिति ॥ हे देवानां बर्हिः शतवल्शं अनेकप्ररोहणम्। यथा तथा विरोह । एकत्र पूर्वपदामन्त्रितायुदात्तत्वम् । अन्यत्र बहुव्रीही पूर्वपदप्रकृतिस्वरत्वम् ।।
आत्मानं प्रत्यभिमृशति-सहस्रवल्शा इति त्रिष्टुभैकपदया । वयमपि सहस्रवल्शाः पुत्रपौत्राद्यनेकप्ररोहवन्तो विरुहेम विरूढा भूयास्म । 'लिङयाशिष्यङ्' इत्यङ्ग्ययः । यासुडादि । 'छन्दस्युभयथा ' इति सार्वधातुकत्वादिय् । यस्य लोपः ॥
"प्रस्तरं निदधाति-पृथिव्या इति ॥ ङीष उदात्तत्वात् 'उदात्तयणो हल्पूर्वात् ' इति विभक्तरुदात्तत्वम् । संपृचन्तीति संपृचः। 'क्विच ' इति विप् । कटुत्तरपदप्रकृतिस्वरत्वम् । नित्यसमासत्वाद्विभक्तिस्वराभावः । पृथिवीसम्टक्तानस्मान्पाहि दिविष्ठस्त्वम्, उपरि निधानात् ॥ *मनु-४-१७८.
क, ग-अनेकप्ररोहं. ग-सार्वधातुकत्वात्तस्य 'लिङस्सलोपोनन्त्यस्य ' इति लोपः.
For Private And Personal Use Only