________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। 12
तैत्तिरायसंहिता
[का. १. प्र. १.
पुरस्ताद्देवेभ्यो जुष्टमिहबर्हिरासदै 'देवानी परिषूतम॑सि वर्षवृद्धमसि देवबर्हित्विान्व
___ 'प्रस्तरार्थान् दर्भान्प्रतिगृह्णाति-देवानामिति ॥ चतुर्थ्यर्थे षष्ठी। देवार्थ परिषूतं परिगृहीतमसि, नात्मार्थम् । अतो मामयं वृथैव हनिष्यतीति नोटेजितव्यम् । प्रवृद्धादेराकतिगणत्वादुत्तरपदान्तोदातत्वम् । 'परेरभितोभावि मण्डलम् ' इति वा । ' अथो यथा वस्यसे '' इत्यादि ब्राह्मणम् ॥
'दर्भस्तम्बमुन्मार्टि-वर्षवृद्धमसीति ॥ वर्षेण वर्धितमसि । पूर्ववण्णिलुक् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । वर्षशब्द उञ्छादित्वादन्तोदात्तः ॥
- असिदादिना बर्हिस्संश्लेषयति-देवबहिरिति ॥ देवानां बर्हिः तल्पभूतम् । षाष्ठिकं 'आमन्त्रितस्य' इत्याद्युदात्तत्वम् । प्रत्ययलक्षणं तत्र नास्तीति चेत् । सोः व्यत्ययेन 'हल्याभ्यः' इति लोपः करिष्यते । अन्वक् पर्वणोधस्तात् । तिर्यक् तिरश्चीनम् । यत्र क्वापि एवं त्वा माच्छिदम् । 'अहिंसायै'। इति ब्राह्मणदर्शनात् , 'आच्छेत्ता' इति वक्ष्यमाणत्वाच्च माशब्देन छेदनं निषिध्यते इति वेदितव्यम् । कस्मात्पुनरन्वक् छेदादि वर्ग्यत इत्याह-पर्वत्यादि । ते तव खलु पर्व प्ररोहस्थानं राध्यासं पुनरपि प्ररोहार्थ अविनष्टं स्थापयामीतीयमाशीः ॥
*ख-नोद्विजितव्यम्.
वा. ३-२-२. ख-नास्तीति वचनव्यत्ययेन. [स्वमोर्नपुंसकादिति लुका लुप्तत्वेन आमन्त्रितविभ
क्तयन्तत्वं न संभवतीति भावः.]
For Private And Personal Use Only