________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भभास्करभाष्योपेता
219
यशस्य । व्यस्कानाद्रोदसी विष्णुरेते
दाधार पृथिवीमभितो मयूखैः । नी । मनवे । यशस्य इति । वीति । अस्कनात्। रोदसी इति । विष्णुः । एते इति । दाधार ।
' यदप्स्ववापद्यत । सा प्रथिव्यभवत् '* इत्यादि । तदानीं युवां रोदस्संज्ञे चाभूतमिति भावः । किञ्च-विस्तीर्णा वा पृथिवीमन्तरिक्षं च । एथिवीशब्देन प्रथि[प्टथु]त्वात्त्रयो लोकाः उच्यन्ते ; यथा-'यो द्वितीयस्यां तृतीयस्यां पृथिव्याम् + इति । इमां च विष्णुर्दाधार अविचलितां स्थापयामास । अभितः अधस्तादुपरिष्टाच्च मयूखैरंशुभिः । 'पर्यभिभ्यां च' इति तसिल । धारयतेश्छान्दसे लिटि व्यत्ययेनाम्प्रत्ययो न क्रियते । यहा'बहुलमन्यत्रापि संज्ञाच्छन्दसोः' इति प्रत्ययोत्पत्तेः प्रागेव णे र्लोपः, 'तुजादीनाम् ' इत्यभ्यासस्य दीर्घत्वम् । एवं महाभागधेयाम्यां युवाभ्यां किन्नाम कर्तुं न शक्यते ? तस्माद्यथोक्तं भव. तमिति । आदित्यपक्षे-व्यस्कन्नात् रोदसी विष्णुरादित्य एते युवां विविधं स्थापयति । तत एते एवं स्थापिते दाधार धारयति प्रथिवीमभितः पृथिव्यामन्तरिक्षस्याधस्तादुपरिष्टाच्च । ' अभितः परितः' इति द्वितीया । मयूखैः रश्मिभिरधोमुखैः पृथिवीं, ऊर्ध्वमुखैश्च दिवं, स्वयं मध्ये अन्तरिक्षे वर्तमानः इति । तस्मादनयाहुत्या युवामन्नादिमत्यौ भवतम् । युवां युवयोरन्तराळं च विष्णुरपि दृढीकरोत्विति ॥
*ब्रा. २-२.९. सं. १-२-१२४-३ क-खैरशंकुभिः.
For Private And Personal Use Only