________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
218
तैत्तिरीयसंहिता
का. १. प्र..
NNNN
ढमस्य ॥ २५॥ पासुर इरावती
धेनुमती हि भूत सूयवसिनी मनवे रे। 'इरावती इतीरा-वती । धेनुमती इति धेनुमंती । हि । भूतम् । सूयवसिनी इति सु-यवसि
स[य]त्पदं विद्युद्रूपं तदेव समूढं सम्मूढं कारणानित्यत्वात्सर्वदान दृश्यते । (मनो) यथेतरे ज्योतिषी सम्यग्गृह्येते दृष्टया सोयमादित्य इदं यज्ञमनेन होमेन समापयत्विति ॥
उत्तरस्यां वर्तन्यां जुहोति-इरावतीति त्रिष्टुभा ॥ द्यावाप्टथिव्यात्मना स्तूयते ; हे हविर्धानात्मिके द्यावाप्रथिव्यौ इरावती इरावत्यौ अन्नवत्यौ भूतं भवतं यज्ञसाधनद्वारेण । लोटि 'बहुळं छन्दसि' इति शपो लुक् , 'हि च ' इति निघातप्रतिषेधः । धेनुमती धेनुमत्यौ च भवतम् । ' द्वस्वनुड्यां मतुप्' इति मतुप उदात्तत्वम् । हिशब्दश्चार्थे, इरावती धेनुमती च भवतमिति । 'वा छन्दसि' इति द्वयोरपि पूर्वसवर्णदीर्घत्वम् । हविर्धानविशेषणत्वे ' नपुंसकाच्च' इति शीभावः । सूयवसिनी शोभनैर्यवसैरभ्यवहायस्तद्वत्यौ, सूयवसिंन्यौ च भवतम् । सोस्साहितिको दीर्घः । यशस्ये यशसो निमित्ते च भवतम् । ‘गोयचः' इति यत्प्रत्ययः । मनवे मन्त्रवते मननवते यजमानाय इत्थं भवतमिति । कस्मादेवमुच्यत इति चेत् , श्रूयतां युवयोमहाभाग्यम्एते युवां रोदसी रोदस्संज्ञां भजमाने विष्णुरेव प्रनापत्यात्मा स्वयं व्यस्कनात् विभज्य स्थापितवान् अधः उपरि च; यथा
For Private And Personal Use Only