________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अनु. १३.]
Acharya Shri Kailassagarsuri Gyanmandir
भास्करभाष्योपैता
च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । सर्मू
I
वीति । चक्रमे । त्रेधा । नीति॑ द॒धे । प॒दम् । समृ॑मिति॒ सं - ऊढम् । अ॒स्य॒ ॥ २५ ॥
सु
217
वा । कतिधा विचक्रम इत्यत आह- त्रेधा त्रिधा पदं पादं निदधे स्थापयामास ष्टथिव्यामन्तरिक्षे दिवि चेत्याधारभेदेन पदस्य त्रैविध्यम् । त्रीणि पदानीति यावत्, यथा ' त्रीणि पदा विचक्रमे ' * इति । ' एधाच्च' इत्येधाप्रत्ययः । यस्मादेवं तस्मादस्य विष्णोः पांसुरे पांसुमति पादे । रः मत्वर्थीयः । यद्वा — सिध्मादिलक्षणो लः, रलयोरेकत्वं स्मर्यते । पांसवो रजांसि लोका उच्यन्ते । तैः रजःकरण[कण ? ]कल्पैः तद्वति विष्णोः पदकमले समूढं सम्यगूढं तेनैव समवस्थापितम् । किमिदं विश्वं यद्विचक्रमे । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अस्येति ' इदमोन्वादेशे - ऽशनुदात्तः' इत्यशादेशोनुदात्तः । य इममर्थमकरोत्स विष्णुरनेन होमेनेमं यज्ञं समापयत्विति भावः । अपरा योजना -- इदं विष्णुरेव स्वयं विचक्रमे विक्रमते यद्धविर्धानं विक्रमते गच्छति ।
6
छन्दसि लुङ्किटः' इति लिट् । विष्णोरेवेदं क्रमणं यद्धविधनस्येति यावत् विष्णुर्विशेष्यते - त्रेधा निदधे पदं तस्मादस्य हविर्धानस्य पांसुरे पांसुमति च मार्गे समूढं सम्यगूढं प्रापितमिदमाज्यमस्त्विति । अन्ये पुनराहुः इदं विश्वं विष्णुर्व्यापी आदित्यात्मा विचक्रमे विक्रमते विभज्य प्राप्नोति त्रेधा ष्टथिव्यामन्तरिक्षे दिवि च पदं निदधाति अनिविद्युत्सूर्यात्मना त्रिषु स्थानेषु पादन्यासं करोति । अस्य विष्णोः पांसुरे त्वन्तरिक्षे +क- आदित्यात्मना.
*वा, २-४०६.
For Private And Personal Use Only