________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
216
तैत्तिरीयसंहिता
का...प्र. २.
देवेष्वा घोषेथामा नौ वीरो जायतां कर्मण्यो य५ सर्वेनु जीवाम
यो बहूनामसदशी । इदं विष्णुर्वि म्। 'एति । नः । वीरः । जायताम् । कर्मण्यः । यम् । सर्वे । अनुजीवामेत्यनु-जीवाम । यः। बहूनाम् । असत् । वशी । इदम् । विष्णुः ।
युवां आत्मीयोत्सजेनेन देवेष्वाघोषेथाम्, अयं यजमानो युष्मान्यजत इत्यवं महता शब्देन घोषणं कुरुतम् । घुषि कान्तिकरणे उदात्त अनुदात्तत् भौवादिकः ॥ __ अक्षधुरमवाअयति-आ न इति ॥ नः अस्माकं वीरः पुत्रादिकः कर्मण्यः कर्मयोग्यः आजायताम् । 'कर्मणि साधुः' इति यत् । पुनरपि विशेष्यते--यं सर्वेपि च वयमनुनीवामः । लोटि सलोपः । यश्च बहूनां वशी नियन्तृत्वादिशक्तिमान् असत् स्यात् । अस्तेर्लेटि 'इतश्च लोपः', 'लेटोडाटौ' इत्यडागमः । इयं च विराङ्गायत्री, प्रथमे पादे यक्षराधिक्यात् । पुरउष्णिप्रथमस्य पादस्य द्वादशाक्षरत्वात् , द्वाभ्यामूनत्वाच्च विराडुष्णिक् । तत्र 'यं सर्वेनुजीवामः' इति द्वितीयः पादः ॥
'दक्षिणस्यां चक्रवर्तिन्यां जुहोति-इदमिति गायत्र्या ॥ इदं विश्वं विष्णुः व्यापी भगवान्विचक्रमे विभज्य क्रमतेस्म । 'वृत्तिसर्गतायनेषु क्रमः' इति वृत्तावात्मनेपदम् । 'वेः पादविहरणे' इति
*क-णिग्वा प्र.
For Private And Personal Use Only