________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १३.]
भभास्करभाष्योपेता
215
देवस्य सवितुः परिष्टुतिः । सुवा
ग्देव दुर्या आ व॑द देवश्रुतौ 'सुवागिति सु-वाक् । देव । दुर्यान् । एति । वद । देवश्रुताविति देव-श्रुतौ । देवेषू । एति । धोपेथा
तुः महती परिष्टुतिः सर्वतः प्रस्तुतिः प्रेरणति यावत् । तस्मातदनुज्ञाता वयमिदं कर्मारभामहे इति भावः । 'तादौ च' इति परेः प्रकृतिस्वरत्वम् ॥ __ अक्षोत्सनने जपति-सुवागिति ॥ हे देव देवनशील अक्षेषु सुवाक् शोभनवाक् भूत्वा दुर्यान्गृहान्यजमानस्य सम्बन्धिन आवद आभिमुख्येन वद, कल्याणी गृहाणां शान्तिकरी वाचं वदे. त्यर्थः । ‘नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वं सुवागिति । दुर्यानिति नकारस्य पूर्ववद्रुत्वादि । 'वरुणो वा एष दुर्वागुभयतो बद्धो यदक्षः '* इत्यादि ब्राह्मणम् । अथ देवश्रुतौ देवेष्वाघोषेथाम् इत्यस्य द्विवचनान्तत्वान्न पूर्वेण सम्बन्धः । आचार्यवचनाच्च, सुवाग्देव दुर्यानावदेत्येवं तत्र जपति इति । द्विवचनसम्बन्धादेवोपरितनेनासधुरोऽवाञ्जने न च सम्बध्यते । न च प्रकरणादुत्कृष्य विकृतिमासाद्य यदयं करिष्यति तत्प्रतीयते । तस्मादैत्रैव विनियोगः कल्पयितव्यः । स च द्विवचनात् पुल्लिङ्गाचाक्षद्वयोत्सर्जनजपे युक्त इव लक्ष्यते । अयमर्थः-देवाश्शृण्वन्ति यौ तौ देवश्रुतौ । कर्मणि क्विप , निष्ठायां वा, ‘परादिश्छन्दसि बहुलम् ' इति उत्तरपदाद्युदात्तत्वम् । हे अक्षौ ईदृशौ *सं. ६.२.९.
ति-त्येव.
For Private And Personal Use Only