SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 तैत्तिरीयसंहिता का. १. प्र. २, विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इन्मही विप्रस्य।बृहतः । विपश्चितः। वीति । होत्राः। दधे । वयुनाविदिति वयुन-वित् । एकः । इत् । मही। देवस्य । सवितुः । परिष्टुतिरिति परि-स्तुतिः । विप्रस्य मेधाविनः बृहतः यजमानस्य सम्बन्धिनो विपश्चितः पण्डिता ऋत्विजः । 'बृहन्महतोरुपसङ्यानम् ' इति विभक्तेरुदात्तत्वम् । एवमेतत्कुर्वाणा बृहतो विपश्चितो भवन्ति । एक इत् एक एव वयुनावित् वयुनानां ज्ञानोपायानां वेदिता । 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । वयुनाविदेक एव होत्राः स्तुतिलक्षणा वाचो विदधे विदधाति विविधमुत्पादयति । छान्दसो लिट् । यहा—होत्राः ऋत्विग्विशेषान् होमस्य कर्तृन् मैत्रावरुणादीन् विदधाति विभज्य स्थापयति । युञ्जते* मनश्च धियश्च युञ्जानाः । एतत्तु कर्तुं न सर्वे शक्नुवन्ति एक एव वयुनाविदेवंविधं कर्तुं शक्नोतीति कारणमाह-मही महती महनीया खलु देवस्य सवितुः परिष्टुतिः परितस्सर्वतः रूपकर्मबान्धवाध्यवसायेन कर्तुं न शक्यते; तस्मादक एव वयुनावित् होत्रा विधातुं शक्नोति । तस्मान्महानयं देव इति सवितुः प्रशंसा । तस्मै सवित्रे इदं स्वाहुतमस्त्विति । अन्य आह—मेधाविनो यजमानस्य सम्बन्धिनो विपश्चितो विप्रा युञ्जते । एक एव वयुनावित् होत्रा विदधाति । सा खलु सर्वा देवस्य सवि*क-अतां. खि-कर्मजातिदेवासानयेन कर्मणा, For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy