________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
212
तैत्तिरीयसंहिता
का. 1. प्र. २.
स्वाहा भूतेभ्यस्त्वा विश्वायुरसि पृथिवीं दृह ध्रुवक्षिदस्य॒न्तरिक्ष
दृ५ हाच्युतक्षिसि दिवं दृ५ हास्वाहा । “भूतेभ्यः । त्वा । "विश्वायुरिति विश्वआयुः । असि । पृथिवीम् । दृरह । ध्रुवक्षिदिति ध्रुव-क्षित् । असि । अन्तरिक्षम् । दृह । अच्युतक्षिदित्यच्युत-क्षित् । असि । दिवम् । दृरह । वो दीर्घश्च निषिध्यते । ‘शतुरनुमः' इति चतुर्थ्या उदात्तत्वम् । 'सोत्तरवेदिरब्रवीत् '* इत्यादि ब्राह्मणम् ॥ ___ "चमुगृह्णाति-भूतेभ्य इति ॥ सर्वभूतार्थ त्वामुद्गृह्णामि । यागसाधनद्वारेण सर्वभूतार्थतोद्हणस्य । ‘य एव देवा भूताः '* इत्यादि ब्राह्मणम् ॥ __पौतुद्रवान् परिधीन् परिदधाति-' अग्नेस्त्रयो ज्यायांसो भ्रातर असन् '* इत्यादि ब्राह्मणम् । तत्र मध्यमं परिदधातिविश्वायुरिति ॥ विश्वमायुर्जीवनमन्नं वा अस्मिन्निति यागसाधन हारेण तादृशोसि, स त्वं पृथिवी दंह दृढामीनधारणसमर्थी कुरु ॥
दक्षिणं परिदधाति-ध्रुवक्षिदिति ॥ ध्रुवे निश्चलेन्तरिक्षे क्षियतीति ध्रुवक्षित् तादृशोसि । स त्वमन्तरिक्षे वसन् अन्तरिक्षं दंह ॥
उत्तरं परिदधाति-अच्युतक्षिदिति । अच्युतेऽविनष्टे दिवि क्षियतीत्यच्युतक्षित् । स त्वं दिवं दंह ॥
*सं. ६-२.८.
For Private And Personal Use Only