________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
210
तत्तिरीयसंहिता
[का. १. प्र. २.
पितृभिर्दक्षिणतः पातु प्रचैतास्त्वा रुद्रैः पश्चात्पातु विश्वकर्मा त्वादि
न्यैरुत्तरतः पातु सि हीरसि सप"प्रचेता इति प्र-चेताः । त्वा । रुद्रैः । पश्चात् । पातु । "विश्वकर्मेति विश्व-कर्मा । त्वा । आदित्यैः । उत्तरत इत्युत्-तरतः । पातु । "सि हीः । असि । सपत्नसाहीति सपत्न-साही । स्वाहा ।
जवो भवति । जवतेरसुनि जवः । स पितृभिस्सह त्वां दक्षिणतः पातु त्वदीयं दक्षिणभागं पातु ॥
"पश्चिमभागं प्रोक्षति-प्रचेता इति ॥ प्रकृष्टचताः प्रकृष्टविज्ञानो वरुणः । स रुद्रैस्सह त्वां पश्चात्पातु पश्चाद्भागं पातु ॥
18उत्तरभागं प्रोक्षति-विश्वकर्मेति ॥ विश्वानि कर्माण्यस्मिनिति विश्वकर्मा त्वष्टा, लोकपालाधिकाराद्वैश्रवणो वा । 'बहुब्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । स आदित्यैस्सह त्वामुत्तरतः पातु तवोत्तरभागं पातु । 'असुरा वजमुद्यत्य देवानभ्यायन्त '* इत्यादि ब्राह्मणम् ॥ ___10उत्तरवेदिमक्षणया व्याघारयति-सिंहारिति पञ्चभिः ॥ तत्र दक्षिणेसे सिंहीस्त्वमसि । सपत्नसाही सपत्नानां शत्रूणामभिभवित्री । स्वाहा सुहुतं तवेदमस्तु ।
*सं. ६-२-७.
For Private And Personal Use Only