SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १२.] भभास्करभाष्योपेता 209 तिः प्रथतां ध्रुवासि देवेभ्यश्शुन्धस्व देवेभ्यश्शुम्भस्वेन्द्रघोषस्त्वा वसुभिः पुरस्तात्पातु मौजवास्त्वा यज्ञ-पतिः । प्रथताम् । "ध्रुवा । असि । “देवेभ्यः। शुन्धस्व । "देवेभ्यः । शुम्भस्व । "इन्द्रघोष इतीन्द्र घोषः। त्वा । वसुभिरिति वसु-भिः । पुरस्ात् । पातु । “मनौजवा इति मनः-जवाः । त्वा । पितृभिरिति पितृ-भिः । दक्षिणतः । पातु। 1 स्फ्येन दृढीकरोति-ध्रुवासीति ॥ ध्रुवा निश्चलासि भवेत्यर्थः । लेटि लोपाभावे* रूपम् ॥ ___ अद्भिरवोक्षति-देवेभ्य इति ॥ देवार्थ शुन्धस्व शुद्धा भव । शुन्ध शौचकर्मणि, चुरादिराधृषीयः ॥ __ "सिकताभिरनुप्रकिरति-देवेभ्य इति ॥ देवार्थ शुम्भस्व शोभस्व उजुला भव । शुभ शुम्भ शोभनार्थे ॥ 1 उत्तरवेदेः प्राग्भागं प्रोक्षति–इन्द्रधोष इति ॥ इन्द्रस्य घोष इन्द्रघोषः स्तनयित्नुः, स वसुभिस्सह त्वां पुरस्तात्पूर्वस्यां दिशि पातु रक्षतु । अनेन प्रोक्षणेन हे उत्तरवेदे त्वदीयं पूर्वभागं पातु ॥ दक्षिणभागं प्रोक्षति मनोजवा इति ॥ मनसो नव इव जवो वेगो यस्य स मनोजवाः यमः । तस्य हि मनस इव *ख-लेटि अतो लोपाभावे. तं-लेटि इतो लोपाभावे. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy