________________
Shri Mahavir Jain Aradhana Kendra
अनु. १२. ]
www. kobatirth.org
भास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
यत्तेना॑धृष्ट॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॒धेग्ने॑ अङ्गिरो यो द्वि॒तीय॑स्यां तृ॒तीय॑स्या॑ पृथि॒व्यामस्यायु॑षा॒ नास्नेहि॒ यत्तेना॑धृष्ट॒ नाम॑ ॥ २२ ॥
207
नान । एर्त । इ॒ह । यत् । ते॒ । अना॑धृष्ट॒मित्यनो॑ वृ॒ष्ट॒म् । नाम॑ । य॒ज्ञिय॑म् । तेन॑ । त्वा॒ । एति॑ । द॒धे॒ । 'अग्ने॑ । अ॒ङ्गः । यः । द्वि॒तीय॑स्याम् । तृ॒तीय॑स्याम् । पृथि॒व्याम् । असिं । आयु॑षा । नानां । एति॑ । इ॒ह । यत् । ते॒ । अना॑धृष्ट॒मित्यना॑ - धृष्ट॒म् । नाम॑ ॥ २२ ॥ य॒ज्ञिय॑म् । तेन॑ । त्वा॒ ।
I
देयस्यायुषस्साधनेन नाम्ना नभ इत्यनेन त्वया विदितेनोपलक्षितः एहि आगच्छ त्वामहं ग्रहीतुमारभ इति ॥
7- 'उत्तरवेद्यां निवपति यत्त इति ॥ हे अग्ने यत्ते तव अनाधृष्टमनभिभूतं केनचिदपि राक्षसादिना यज्ञियं यज्ञार्ह यज्ञसम्पादन समर्थ नाम नभ इत्येतत् । तेन त्वामादधे स्थापयामि । उत्तरवेद्यामाहवनीयधारणार्थं पुरीषात्मना त्वयैवायं धारयितुं शक्यते न हि त्वदन्यस्तद्धारयितुं समर्थः । तस्मादेतन्नाम बिभ्रदुत्तरवेद्यामात्मनो महिमानमाहवनीयं धारयितुं सन्निहितो भूत्वा यज्ञं सम्पादयेति भावः । एवं द्वितीयं तृतीयं च करोति । विदे
ख - विभ्रत उ
For Private And Personal Use Only