________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
204
तैत्तिरीयसंहिता
का. १. प्र. २.
गया तनूर्षिष्ठा गह्वरेष्ठोग्रं वचो शयेति हरा-शया । तनूः । वर्षिष्ठा । गह्वरेष्ठति गहरे-स्था । उग्रम् । वचः । अपेति । अवधीम्।
छान्दसो लुङ्, 'हनो वध लुङि' इति वधा देशः, 'आमो मश' इति मशादेशः । त्वेषं दीप्तं* क्रूरं राक्षसादिसमीरितं श्रुत्या भीतिजनकम् । 'एनश्च वैरहत्यं च त्वेषं वचः । इत्यादिब्राह्मणम् । एनस्विभिर्वीरहादिभिश्च प्रयोज्यत्वात् । तच्च वचोपावधीम् । तस्य प्रयोक्तारं च अपहन्मि त्वत्प्रसादान्नाशयेयम् । इदमुभयं तदर्थं तस्यै तन्वै स्वाहा सुहुतमिदमस्तु ॥
'द्वितीयस्यां जुहोतिया ते अग्ने रजाशया तनूरित्यादि । रजोन्तरिक्षं तस्मिन् शेत इति रजाशया मध्यमात्मिका । रजश्शब्दात्परस्यास्सप्तम्या डादेशः, पूर्ववदलुक् । शेषं समानम् ॥
तृतीयायां जुहोति-हराशया तनूरित्यादि ॥ भौमानूसान् हरतीति हरो द्युलोकः , तस्मिन्शेते हराशया सूर्यात्मिका । डादेशादि समानम् । यहा-या सेत्यध्याहियते । अपावधीमिति च पुरुषव्यत्ययः अपावधीदिति । सा उग्रं त्वेषं वचो अपहन्त्विति । शाखान्तरे च अपावधीदिति पाठः । ' तेषामसुराणां तिस्त्रः पुरआसन्नयस्मय्यवमाथ रजताऽथ हरिणी'इति ब्राह्मणानुसारेणान्यथा व्याख्यायते । अयसि अयस्मय्यां पुरि शेत
*क-दीप्तमुनम्. बा. १-५-९. स ६-२-३.
For Private And Personal Use Only