SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु ११.) भभास्करभाष्योपेता 203 तनूस्तयां नः पाहि तस्यास्ते स्वाहा या ते अग्नेयाग़या रजाशया हेराअग्ने । रुद्रिया । तनः । तया । नः । पाहि । तस्याः । ते । स्वाहा । या । ते । अग्ने । अयाशयेत्यया-गया । 'रजाशयति रजा-अ॒या । हरा तस्यास्तन्वाः पतिभूताय ते तुभ्यं स्वाहा हुतमिदं पयोस्तु । चतुर्थ्यर्थे वा पष्ठी । तदीयायै तस्यै तन्वै स्वाहेति ॥ "उपसदाहुतीर्नुहोति-तिसृपूपसत्सु अनुक्रमेण या त इति तिसृभिरनुष्टुग्भिः । तत्र प्रथमायां 'या ते अग्नेयाशया' इति ॥ 'तनूर्षिष्ठा ' इत्यादि तिसृष्वपि सम्बध्यते । हे अग्ने या ते त्वदीया तनूः, अयाशया अस्यां पृथिव्यां शेत इत्ययाशया । इदमस्सप्तम्येकवचनत्त्य ‘सुपां सुलुक्' इति यादेशः, 'हलि लोपः । इतीद्रूपस्य लोपः, त्यदाद्यत्वम् , अस्यां शेत इति 'अधिकरणे शेतेः ' इत्यच् , ' शयवासवासिष्वकालात् ' इत्यलुक् , रुदुत्तरपदप्रकृतिस्वरत्वम् । वर्षिष्ठा वृद्धतमा । प्रियस्थिरादिसूत्रेण वृद्धशब्दस्य वर्षा देशः । गहरे गहने तिष्ठतीति गह्वरेष्ठा । 'सुपि स्थः ' इति कः, 'तत्पुरुषे कृति बहुकम् ' इत्यलुक् । तयेत्यध्या*द्वियते । तया तन्वा उग्रं उद्र्णमधिक्षेपं वचोपावधीमप ह न्मि, तस्य प्रयोक्तारमपहन्मीति यावत् । 'अशनयापिपासेहवा उग्रं वचः । इत्यादि ब्राह्मणम् । तन्निमित्तत्वात्तादशवचनश्रुतेः । * ख-तयेत्याद्यध्या. बा. १.५-९. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy