________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
200
तैत्तिरीयसंहिता
का. १. प्र. २.
प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे रायः । प्रेति । इषे । अगाय । ऋतम् । ऋतवादिभ्य इत्य॒तवादि-भ्यः । नमः । दिवे । नमः । पृथिव्यै।
प्रापयितुं त्वरमाण यस्मादीदृशस्त्वमसि तस्माद्रायो धनानि अस्माकं सन्तु त्वन्महिना । यहा-ईदृशस्त्वमेव रायो धनानि ; रैहेतुत्वाद्वैत्वमुपचर्यते । इषेस्तृन्, 'तीषसहलुभरुषरिषः' इतीडंभावः, षाष्ठिकमामन्त्रितायुदात्तत्वम् । सम्बुद्धिगुणे ‘रो रि' इति लोपे 'ठूलोपे पूर्वस्य दीर्घोऽणः' इति दीर्घत्वम् । केचिनिष्ठायां वर्णव्यत्ययेन* इकारस्यैकारमाहुः, अनामन्त्रितत्वं च मन्यन्ते । तदा आधुदात्तत्वं दुर्लभम्, रेफस्य संहितायां 'हशि च' इत्युत्वं प्रामोति । शाखान्तरे तु-आ इष्टः एष्ट इति मत्वा अवग्रहं कुन्ति । तदा 'गतिरनन्तरः ' इत्याधुदात्तत्वं सिद्धम् । राय इति च षष्ठयन्तं केचिदाहुः । तेषां 'उडिदं पदाद्यप्' इति विभक्तरुदात्तत्वं प्रामोति । आमन्त्रितेन तु सम्बन्धे 'परमपिच्छन्दसि' इत्यामन्त्रितानुप्रवेशात् पृथक्स्वरत्वाप्रसङ्गः । एवं प्रस्तरं स्तुत्वेदानी स्वाभिलषितं प्रार्थयते । तत्र ससाधनां क्रियामुपसर्ग आहेति योग्यं क्रियापदमध्याहियते । इषे अन्नाय, भगाय ऐश्वर्याद्याय च प्रभव तत्सम्पादनसमर्थोस्माकं भव । 'सावेकाचः' इतीषो विभक्तिरुदात्ता ।
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥
*क-वर्णव्याप्तथा.
For Private And Personal Use Only