________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता
199
प्यायतामा त्वमिन्द्राय प्यायस्वा प्यायय सखीन्थ्सन्या मेधा स्वस्ति
ते देव सोम सुत्यामशीयेष्टा रायः इत्यैकधन-विदै । एति । तुभ्यम् । इन्द्रः । प्यायताम् । एति । त्वम् । इन्द्राय । प्यायस्व । एति। प्यायय । सखीन् । सन्या । मेधया । स्वस्ति । ते । देव । सोम । सुत्याम् । अशीय । एष्टः । येषु घटेपु ते एकधनाः, तान्विन्दति लभत इत्येकधनवित् । इन्द्रो हि तान्विन्दति इन्द्रार्थत्वात् । इन्द्रोपि तुभ्यं त्वदर्थ त्वत्पानार्थमाप्यायतां पातुं समर्थो भवतु । त्वं चाप्यायमानसवांशुः इन्द्रार्थमाप्यायस्व पर्याप्तो भव ॥
यजमानं वाचयति-आप्याययेति ॥ सखीन् समानख्यानान् ऋत्विजः सन्या धनेन मेधया च यागनिर्वर्तनसमर्थया आप्यायय सम्पन्नान् कुरु । सनिशब्दोन्तोदात्तः, तेन 'उदात्तयणः । इति ततः परस्या विभक्तेरुदात्तत्वम् । किञ्च-हे देव सोम स्वस्ति ते अविनाशेन* अविनेन तव सुत्यामभिषवमशीय प्राप्नुयाम् । आशिषि लिङ्, 'छन्दस्युभयथा' इति सार्वधातुकत्वात्सीयुटि सलोपः । सुनोतेः 'संज्ञायां समननिषद' इति क्यप् , ' उदात्तः' इति हि तत्रानुवर्तते ॥
प्रस्तरे पाणिं निधाय नमस्कुर्वन्ति-एष्टा राय इति ॥ प्रस्तर उच्यते । हे एष्टः एषणशील प्रयोगनिवृत्ति द्वारेण फलं *ख-अविनाशि.
क-च्यते एषण यागनिवृत्ति.
For Private And Personal Use Only