________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १०.]
भभास्करभाष्योपेता
197
अनभिशस्तेन्यमनु मे दीक्षां दीक्षा
पतिर्मन्यतामनु तपस्तपस्पतिरञ्जसा नभिशस्तेन्यमित्यनभि-शस्तेन्यम् । "अन्विति । मे। दीक्षाम् । दीक्षापतिरिति दीक्षा-पतिः । मन्यताम् । अन्विति । तपः । तपस्पतिरिति तपः
यः, विभक्तेलुंगभावश्चान्दसः, योगं नाहतीत्यर्थे तद्धितः, 'ययतोवातदर्थे ' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा-अभिशंसनं अभिशस्तं तन्नाहतीति एन्यप्रत्ययश्छान्दसः, 'नो गुणप्रतिषेधे' इत्युत्तरपदान्तोदात्तत्वम् । ईदृशं त्वमसीत्याज्यस्तुतिः ॥
यजमानं वाचयति—अन्विति ॥ दीक्षापतिर्विष्णुस्स मम दीक्षामनुमन्यतां अनुनानातु । ' पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । तपः उपसत् तस्य पतिस्तपस्पतिरग्निः । सोपि मम तपोनुमन्यताम् । अअसा ऋजुना आशास्येन सत्यं समयं तानूनत्राभिमर्शनेन उपगेषं उपसम्प्राप्तोस्मि । अत एतद्विज्ञाय मां सुविते धाः धेहि स्थाफ्य हे आज्य सुविते सूतौ अपत्ये मां धेहि अपत्यवन्तं मां कुरु । छान्दस इडागमः । यद्वा-सुविते स्विते सुष्टुप्राप्ते अस्मत्प्राप्ते अस्मत्पूर्वचरिते यज्ञे वा मां धेहि । स्थाने वा सुखवति अस्मत्पूर्वरिते मां स्थापय । 'तन्वादीनां बहुळं छन्दसि ' इत्युवङादेशः, 'सूपमानाक्तः' इत्युत्तरपदान्तोदात्तत्वम् । अन्य आहुः-अअसा ऋजुना यथाशास्त्रीयेण सत्यं सति साधु परानिन्दात्मकं वस्तु उपगेषं उपगतो भूयासम् । तदर्थ
*28
For Private And Personal Use Only