________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
196
तैत्तिरीयसंहिता
का. १. प्र. २.
जिष्ठाय त्वा गृह्णाम्यनाधृष्टमस्य
नाधृष्यं देवानामोजोभिशस्तिपा त्वा । गृह्णामि । "अर्नाधृष्टमित्यना-धृष्टम् । असि । अनाधृष्यमित्य॑ना-धृष्यम् । देवानाम् । ओजः । अभिशस्तिपा इत्यभिशस्ति-पाः । अ
सुलुक्' इति डेर्लुक् , 'न ङिसम्बुद्ध्योः ' इति नलोपप्रतिषेधः । शक्तानां मध्ये ओनिष्ठाय अतिशयेन बलवते प्राणाय त्वां गृह्णामि । ओजस्विशब्दादिष्ठनि 'विन्मतोलृक् ', 'टेः' इति टिलोपः । अयमेककार्यानुवृत्त्यर्थं समयः क्रियते । यद्येवं समयो न क्रियेत तदा परस्पराभिप्रायेण द्रोहेण विप्रतिपद्यमाना यागं न कुर्युः । अतस्तन्मा भूदिति तानूनप्त्रं गृह्यते ॥
1अवमृशति-अनाधृष्टमसीति ॥ आज्यमुच्यते । अनाधृष्टं केनचिदप्यनभिभूतमसि । अनाधृष्यं केनचिदप्यभिभवितुमशक्यं चासि । 'ऋदुपधाच्चाक्लपितेः' इति क्या , 'ययतोश्चातदर्थे ' इत्युत्तरपदान्तोदात्तत्वम् । देवानामोजो बलं चासि । त्वया हि देवा ऋत्विजो बलवन्तो यजन्ते । यहा—त्वया हि देवा इन्द्रादयो बलवन्तो भवन्ति । अभिशस्तिपाः अभिशस्तिरभिशंसनमभिशापः अतस्त्वं पासि । विचि लिङ्गव्यत्ययः । अनभिशस्तेन्यं अनभिशंसनीयं केनचिदपि नाभिशंस्यते न दूप्यत इत्यर्थः । एन्यप्रत्ययस्तुडागमश्च, उत्तरपदान्तोदात्तत्वं च छन्दसि । [यहा?] अभिशस्तेन योगं नार्हति इत्यनभिशस्तेन्यम् । 'छन्दसि च ' इति
For Private And Personal Use Only