________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १०.]
भट्टभास्करभाष्योपेता
196
195
ह्यापतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि
शाकराय॑ त्वा गृह्णामि शक्मन्नोछिस्महि । आपतय इत्या-पतये। त्वा । गृह्णामि। "परिपतय इति पर-पतये । त्वा । गृह्णामि । "तनूनप्त्र इति तनू-नप्ने । त्वा । गृह्णामि । "शाकराय । त्वा । गृह्णामि । "शक्मन् । ओजिष्ठाय । ___ "तानूनप्त्रं गृह्णाति-आपतय इति ॥ आवृत्त्या आभिमुख्येन वा पतति पातीति वा आपतिः प्राणः । 'प्राणो वा आपतिः '* इति च ब्राह्मणम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तस्मै तदविनाशाय त्वां गृह्णामि ध्रुवातः स्त्रुवेण गृह्णामि ॥ ___ "हे आज्य परितः सर्वतः पाति पततीति वा परिपतिः मनः । पातेर्डतिः । पतेः 'इन् सर्वधातुभ्यः' इति इन् । 'मनो वै परिपतिः'* इति च ब्राह्मणम् । तस्मै त्वां गृह्णामि ॥
"तनूनामपां नप्ता चतुर्थः तनूनप्ता अग्निः शरीरस्थः । तस्मै गृह्णामि । वनस्पत्यादित्वात्पूर्वोत्तरपदयोः युगपत्प्रकृतिस्वरत्वम् ॥
1"शाक्वराय शक्तयै । शकनशीलः शक्करः तस्य भावशाक्वरं शक्तिरेव । 'शक्तचै हि ते तास्ममवाद्यन्त'* इति च ब्राह्मणम् । तस्मै गृह्णामि ॥ "शक्मन्न् शक्मेषु, जातावेकवचनम् । शर्मनिन्, 'मुपां
*सं. ६-२-२.
For Private And Personal Use Only