________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १०.]
भभास्करभाष्योपेता
193
ता ते विश्वा परिभूरस्तु यज्ञं गयस्फानःप्रतरणस्सुवीरोवीरहा प्रचरा
सोम दुर्यानदित्यास्सदोदित्या'गयस्फान इति गय-स्फानः । प्रतरण इति प्रतर॑णः । सुवीर इति सु-वीरः । अवीरहेत्यवीर-हा । प्रेति । चर। सोम । दुर्यान् । अदित्याः । सदः । असि । अदित्याः । सदः । एति ॥ १८॥
लक्षणे परेः कर्मप्रवचनीयसंज्ञा । — कर्मप्रवचनीयानां प्रतिषेधः । इत्येतद्बाधित्वा व्यत्ययेन समासः ।।
__ 'शाला प्रवेशयति-गयस्फान इति द्वितीयेनार्धन ॥ गय इति गृहनाम । गयानां गृहाणां स्फायिता वर्धयिता गयस्फानः । ओ स्फायी वृद्धौ, ‘कृत्यल्युटो बहुळम् ' इति कर्तरि ल्युट् , धातोरन्त्यलोपश्चान्दसः । आकारान्तं धात्वन्तरं वा द्रष्टव्यम् । प्रतरणः प्रकर्षेण दुर्गेभ्यस्तारयिता । सुवीरश्शोभनैः पुत्रपौत्रादिभिरस्मदीयैस्तद्वान् । 'वीरवी? च ' इत्युत्तरपदाद्युदात्तत्वम् । अवीरहा कस्यचिदप्यस्मदीयस्य पुत्रपौत्रादेरहन्ता सर्वदा प्रसन्न एव सन्, हे सोम दुर्यान् प्राग्वंशादीन् गृहान् प्रचर प्रकर्षण प्रविश्य चर॥
8-कृष्णाजिनस्तरणसोमस्थापनमन्त्री व्याख्यातो* अदित्यास्सद इति ॥
*से १-२-८.3.1.
For Private And Personal Use Only