________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
192
तैत्तिरीयसंहिता
का. १. प्र. २.
रायस्पोषदावन्ने विष्णवे त्वा श्येनाय॑ त्वा सोमते विष्णवे त्वा
या ते धामानि हविषा यजन्ति दावन्ने । विष्णवे । त्वा । श्ये॒नाय॑ । त्वा । सोमअत इति सोम-मृते । विष्णवे । त्वा । 'या। ते । धामानि । हविषा । यजन्ति । ता । ते। विश्वा । परिभूरिति परि-भूः । अस्तु । यज्ञम् ।
पामि । रायो धनस्य पोषो रायस्पोषः । छान्दसप्षष्ट्या अलुक् , 'षष्ठयाः पतिपुत्र' इति सत्वम् । तं ददातीति । 'आतो मनिन् ' इति वनिप् , कदुत्तरपदप्रकृतिस्वरत्वम् ॥
श्येनस्सोमभृदेवताविशेषः । गायत्रीत्येके ॥ श्येनश्शंसनीय इत्याहुः । श्येनात्मा* वा सोमं बिभर्तीति सोमभृत् । गायत्रीपक्षे सोमं हरतीति सोमभृत् । — हृग्रहोर्भश्छन्दसि' इति भत्वम् ॥ ___ यजमानस्सोममादत्ते-~~या त इति त्रिष्टुभार्धर्चेन ॥ हे सोम या यानि तव धामानि स्थानानि नामानि जन्मानि वा हविषा यजन्ति ता तानि विश्वान्यपि धामानि परिभूः परितो भावयिता रक्षिता अस्तु । कः ? भवान् । यहा—पुरुषव्यत्ययः, एधीत्यर्थः । यज्ञं च परिभूरस्तु । 'ततोन्यत्रापि दृश्यते' इति द्वितीया । तसिप्रत्ययान्तो वा । तत्र 'अभितःपरितस्समयानिकषाहाप्रतियोगेष्वपि दृश्यते' इति द्वितीया । यहा*क. श्येनात्मना.
क-तसिल्प्रत्ययलोपो.
For Private And Personal Use Only