________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १०.]
भभास्करभाष्योपेता
191
मस्यातिथ्यमसि विष्णवे त्वातिथे
रातिथ्यम॑सि विष्णवे त्वाग्नये त्वा 'सोमस्य । आतिथ्यम् । असि । विष्णवे । त्वा । 'अतिथेः । आतिथ्यम् । असि । विष्णवे । त्वा । 'अग्नये । त्वा । रायस्पोषदावन्न इति रायस्पोषनिर्वपणमन्त्रेष्वनचादयोपि प्रतीयन्ते, तत्कथं केवलं* विष्णुस्स्यात् हविषस्सम्बन्धी ? उच्यते--अग्नचादिग्रहणस्योपलक्षणार्थत्वादन्येषामपि राज्ञा सहागतानामतिथीनाम्, अत्रागतानां मध्ये कैश्चिन्निपिः क्रियत इति । अत्र हि ब्राह्मणम् ' यावद्भिवै राजानुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते। इत्युक्ता 'अनेरातिथ्यमास विष्णवे त्वत्याह गायत्रिया एवैतेन करोति', इत्यदिना अनचादीनामुपलक्षणभूतानां हविषा सम्बन्धो नास्तीति प्रतिपादयति । तत्रानयादयस्तिस्रो देवताः विष्णुना व्यधिकरणभूता निर्दिष्टाः ; अन्ये तु सामानाधिकरण्येन, आतिथ्यपदं च तयोर्मन्त्रयोर्नास्ति । तत्र वैचित्र्यकारणं मृग्यम् । मन्त्रार्थस्तु—निरुप्यमाणं द्रव्यमुच्यते । अनेरग्नयात्मनों विष्ण्वंशस्यातिथ्यमतिथिप्रयुक्तं निर्वाप्यं त्वमासि, तत्त्वां विष्णवे हविष्मते निर्वामि ॥
सोमस्य सोमलतात्मनो विष्ण्वंशस्य । शेषं समानम् ।।
अतिथिरतनशीलः यतस्सर्वदा गच्छति आदित्य उच्यते; वायुर्वा । समानमन्यत् ॥ 'रायस्पोषदावा नामाग्निविशेषः, तदात्मने विष्णवे त्वां निर्व*म., तं. दे-केवलो. सं. ६-२-१. क. अन्येषामपि राज्ञा सम्बन्धो नास्तीति प्रतीयते.
For Private And Personal Use Only