________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
190
तैत्तिरीयसंहिता
का. १.प्र. २.
स्कम्भसर्जनमस्युन्मुक्तो वरुणस्य पार्शः ॥ १७॥
अग्नेरातिथ्यमसि विष्णवे त्वा सोम्भसर्जनमिति स्कम्भ-सर्जनम् । असि। उन्मक्त इत्युत्-मुक्तः । वरुणस्य । पार्शः ॥ १७ ॥
मित्रस्य त्रयोविश्शतिश्च ॥ ९ ॥ 'अग्नेः । आतिथ्यम् । असि । विष्णवे । त्वा।
योक्रम *पनयति---उन्मुक्तो वरुणस्य पाश इति ॥ अपनीतोसीत्यर्थः । यहा—त्वय्यपनीते वरुणस्य पाशः उन्मुक्तो भवतीति ।।
इति द्वितीये नवमोनुवाकः.
__आतिथ्यं निर्वपति-अनेरातिथ्यमसीत्यादिभिः ॥ ‘अतिथिरभ्यतितो गृहाद्भवति + इति यास्कः । अतेरिथिन् । अतिथये इदमातिथ्यम् । 'अतिथेWः' । अत्र सर्वदेवतात्मनो विष्णोरंशभूता एते अनचादयो राज्ञि गृहमागते आगता भवन्ति । ते च केवलं निर्वपणविशेषणतयोपादीयन्ते । यथा-' यदनावानं माथित्वा प्रहरति तेनैवानय आतिथ्यं क्रियते ' इति । अत्र नाग्नेहविषा सम्बन्धः । एवमेते अनचादयो न हविर्भजन्ते, विष्णोरेव केवलस्य सर्वदेवतासमष्टिरूपस्य हविषा सम्बन्धः । ननु *कयोक्रमव. न. का. ४-१-५ [“गृहान् भवति' इति मुद्रितनिरुक्तकोशे.] ख-...णतया विधीयन्ते. सं ६-२-१.
For Private And Personal Use Only