________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
188
'तैत्तिरीयसंहिता
का. १. प्र. २.
hanumaarwww
वृणक्ति विन्दते वसु नमो मित्रस्य
वरु॑णस्य॒ चक्षसे महो देवाय तदृतर विन्दते । वसु । नमः । मित्रस्य । वरुणस्य । चक्षसे । महः । देवार्य । तत् । ऋतम् । सपर्यत । दूरदृश इति दूर-दृशे । देवजातायेति देव-जा
राजानं प्रत्युपतिष्ठते-नमो मित्रस्येति जगत्या ॥ सूर्यात्मना सोमस्स्तूयते । नमस्कारोस्तु तस्मै मित्रस्य वरुणस्य चक्षसे चक्षुस्स्थानीयाय । महः चतुर्थ्यर्थे षष्ठी ; महते देवाय तदर्त यज्ञं सपर्यत तस्मै देवाय सपर्यार्थं यज्ञमपि प्रयुङ्गम् । सपर पूजायां कण्ड्डादिः । विभक्तिव्यत्ययेन वा चक्षुस्स्थानीयं तं ऋतेन परिचरतेति । एवं नमस्कारेण यज्ञेन च महान् देव आराध्यत इत्युक्तम् , अधुना स्तोत्रेणाप्याराधनीय इत्याहदूरदृशे दूरे सर्वदा दृश्यत इति दूरेडक्, दूरे स्थित्वा सर्व पश्यतीति वा । ' तत्पुरुषे कृति बहुळम् ' इत्यलुक् । देवजाताय जाता देवा यस्मिन् । 'निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् ' इति परनिपातः । केतवे रश्मिमते । मत्वर्थीयो लुप्यते । यद्वा-केतुः प्रज्ञा, तद्धेतवे तदात्मने वा । दिवस्पुत्राय दीप्तेः पुत्रस्थानीयाय, सदा तत्प्रभवत्वात् । यद्वा-दिवो द्युलोकस्य दुःखात्रायकाय । 'षष्ठ्याः पतिपुत्र' इत्यादिना सत्वम् । ईदृशाय सूर्याय विश्वस्य सवित्रे शंसत शस्त्राणि कुरुत, स्तुवतेति यावत् । एवं लिङ्गात्सूर्योपस्थानमिदं प्रतीयते, सोमोपस्थाने तु विनियुज्यते 'राजानं प्रत्युपतिष्ठते ' इति । तत्र
For Private And Personal Use Only